सामग्री पर जाएँ

पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


 एष सर्वधियां नृतमविलमैकदर्शन ।
 वीक्षतेऽवीक्षमाणोऽपि निमिषतङ्कवोऽधुवम् ॥ ५ ॥
नन् सर्वसिद्धान्तानामपि स्वस्वदृष्टयपेक्षयोपपन्नावादितरेतरदृष्ट्यपेक्षया च दुःस्थितसिद्धिकत्वात्रैकत्रापि विश्वासं
पश्यामो न च सर्वतार्किकैरदूषितमसमर्थितं चातो न
सर्वतार्किकोपद्रवापसर्पणाय वार्म सम्भावयामः । उच्यते । विस्रब्धः सम्भाव्यतामनुभवमात्रशरणत्वात्सर्वतार्किकप्रस्यानानां तदभिधीयते ।
 इमं प्राक्षिकमुद्दिश्य तर्कज्वरभृशानुराः ।
 वाच्छिरस्कवचोजालैमोहयन्तीतरेतरम् ॥ ५९ ॥


द्रष्टारमात्मानमादायेत्यर्थः । किमित्यविद्याध्यारोपितं रूपमङ्गीकृतमित्यत अाह केवलेति । शुद्धचैतन्यस्यान्वयव्यतिरेकव्यवहारायोग्यत्वाह्यवहारसाध्यफलाभावाचेत्यर्थः । अथेदानीमिति । परिणामिबुद्युपाधिप्रयुक्तद्रष्ट्रन्वयव्यतिरेकेणानाद्यविद्योपाधिप्रयुक्तं साक्षित्वमाश्रित्य कर्तृत्वादिप्रतिषेधः क्रियत इत्यर्थः । एष सर्वधियां नृत्तमिति । एवमात्माविलुतैकदर्शनोऽपरिणाम्यद्वयचित्स्वभावः सर्वासां धियां नृत्तं निमिषजडं वीक्षते तथा स्वयं धुवोऽध्रुवं वीक्षत इत्यर्थः । वीक्षत इत्युक्तत्वात्पारिणामित्वप्रसक्तावाह अवीक्षमाणोऽपीति । कर्तृत्वशून्य एव स्वात्मोपरक्तं स्वरूपेणैवादित्यवद्वभासयतीत्यर्थः ॥ ५८ ॥

 उत्तरश्लोकव्यावत्यमाशङ्कामाह ननु सर्वेति । सर्वेषां सिद्धान्तानामन्योन्यपराहतत्वान्न कुत्रापि विश्वासः कक्तुं शक्यत इत्यर्थः । ननु सर्ववादिनां कुत्रचित्संप्रतिपत्तिसम्भवात्तत्र विश्वासोऽस्त्चित्यत आह न चेति । श्लोकमवतारयन्परिहरति उच्यत इति । अनुभवस्तावत्सर्ववादिसंप्रतिपन्नस्तत्र न कस्यापि विप्रतिपत्तिः सचास्माकमात्मा तत्र स वैर्विश्वासः कर्तव्यः सर्वेरभ्युपगतत्वादित्यर्थः । इममिति । अनुभवमेव