पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/८३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


द्वितीयोऽध्यायः । b१ आत्मना चाविनाभावमथवा विलयं व्रजेत् । न तु पक्षान्तरं यायादतश्चाहंधियोच्यते ॥ ५६ ॥ कीहक्पुनर्वस्तु लक्ष्यम् । नामादिभ्यः परो भूमा निष्कलोऽकारकोऽक्रियः । स एवामवतामात्मा स्वतःसिद्ध: स एव नः ॥ ५७ ॥ अज्ञानोत्थबुद्धयादिकर्तृत्वोपाधिमात्मानं परिगृह्यवान्व यव्यतिरेकाभ्यामहं सुखी दुःखी चेल्यहङ्कारादेरनामधर्मे त्वमुक्तं केवलात्माभ्युपगमेऽशक्यत्वात्फलाभावाच्च । अ थेदानीमविद्यापरिकल्पितं साक्षिाचमाश्रित्य कर्तृत्वाद्य शेष्परिणामप्रतिषेधायाह । इदानीमन्तःकरणविशिटेऽहंशब्दस्य मुख्यवृत्यापि वृत्तिरस्तीत्याह आत्मना चेति । अहङ्कारो हि स्वस्थितावात्मना चाविनाभावं प्रामुयाद् न्यथा तस्य नाश एव न पुनः पक्षान्तरमस्ति न पुनर्विद्यमानस्यैवात्मव्य तिरेकेण क्षणमप्यवस्थानमस्ति तथा चाहंशब्दनात्मोच्यत इत्यर्थः । अ हंधियाहंधीहेतुनाहंशब्देनेति यावत् ॥ ५६ ॥ प्रवधमहंशब्दवाच्यत्वं दर्शितमिदानीं प्रश्नपूर्वकं लक्ष्यं दर्शयति कीदृ गिति । नामादिभ्यः प्राणान्तेऽभ्यः परोऽन्यो यत्र नान्यत्पश्यतीत्यारभ्य स भूमेत्युक्तलक्षणोऽत एव क्रियाकारकतत्साध्यफलश्शून्यः सर्वेषामात्म वतामात्मा स एव लक्ष्य इत्यर्थः । ननु प्रमाणान्तरसिद्धस्य लक्ष्यत्वाद्र ह्मणः प्रमाणान्तरासिञ्चद्यभावात्कथं लक्ष्यत्वमित्याशङ्कय लक्ष्यत्वे शब्दव्य तिरेकेणैव सिद्धत्वं प्रयोजकं न तु प्रमाणान्तरसिद्धत्वं । तच्चास्माकम स्तीत्याह स्वतःसिद्ध इति ॥ ५७ ॥ पूर्व द्रष्ट्रन्वयदृश्यव्यतिरेकयोः प्रदर्शनेनाहङ्कारादेरनात्मत्वमुक्तमिदा नीं साक्ष्यन्वयसाक्ष्यव्यतिरेकयोः प्रदर्शनेन द्रष्टत्वादिव्यतिरेकः प्रददर्यत इत्याह अज्ञानोत्थेति । अज्ञानोत्थबुछद्यादिलक्षणः कर्तृत्वोपाधिर्यस्य तं