पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
द्वितीयोऽध्यायः ।

नैष्कम्यैसिद्धिश्रवन्द्रिकासहिता
सामानाधिकरण्यश्रवणादनात्मार्थेन सामानाधिकरण्यं
प्राप्तोति वक्तव्या च प्रत्यगात्मनि तस्य वृतिरिति सोच्यते प्रसिद्दलक्षणागुणवृतिभिः ।
 नाज्ञासिषमिति प्राह सुषुप्तादुत्थितोऽपि हि ।
 अयोदाहादिवतेन लक्षणं परमात्मनः ॥ ५४ ॥
 प्रत्यक्त्वादतिसूक्ष्मावादात्मदृष्टयनुशीलनात् ।
 अतो वृत्तीविहायान्या ह्यहंवृत्योपलक्ष्यते ॥ ५५ ॥


धिकरण्यश्रवणानुपपत्तिरहंशब्दस्य प्रत्यगात्मवाचित्वोपपत्तेरित्याशङ्कय तर्हि तस्य तत्र वृत्तिप्रकारो वाच्य इत्याह वक्तव्या चेति । तत्र तावदहंशब्दस्य प्रत्यगात्मनि प्रसिद्धया मुख्यया वृत्त्या लक्षणया वृत्त्या गुणवृत्त्या च या वृत्तिस्तां दर्शयन्परिहरति सोच्यत इत्यादिना । तत्र लक्षणावृत्ति तावद्दर्शयति नाज्ञासिषमिति । सुषुत्यवस्थायामहङ्काराभावेऽपि नाहमशासिषमिति केवलात्मन्यहंशब्दस्य प्रयोगदर्शनादहं ब्रह्मास्मीत्यत्राप्यहङ्कारसद्भावेऽप्यहंशब्दस्य मुख्यार्थपरिग्रहे प्रमाणान्तराविरोधात्ततत्सम्बद्धार्थान्तरे प्रत्यगात्मनि जहलुक्षणावृत्त्या वृत्तिराश्रीयते । यथायो दहतीत्यत्रायःशब्दस्य मुख्यार्थपरिग्रहे दग्धृत्वप्रतीतिविरोधान्मुख्यार्थपरित्यागेन मुख्यार्थसम्बद्धार्थान्तरे च वह्नौ जहल्लक्षणया वृत्तिराश्रीयते तद्वदित्यर्थः ॥ ५४ ॥

 इदानीमहंशब्दस्यात्मनि गुणवृत्तिमाह प्रत्यक्त्वादिति । स्वव्यतिरिक्तसकलानात्मापेक्षयान्तरत्वाद्रव्यत्वे सति स्पशदिरहितत्वेन सूक्ष्मत्वादन्नमयकोशमारभ्यात्मदृष्टयनुशीलनाचाहङ्कारगुणानामात्मनि विद्यमानत्वाद्धटादिविषयवृत्तीविहायाहंवृत्त्या तच्छब्देन चोपलक्ष्यत इत्यर्थः । यद्धा । आत्मदृष्टयनुशीलनादात्मनः स्वरूपभूतया दृष्टयानुशीलनात्तदाभासोदयेन निरन्तरं सम्बन्धादित्यर्थः । ५५ ॥