पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७९
द्वितीयोऽध्यायः ।


सर्वस्यानर्थजातस्य जिहासितस्य मूलमहङ्कार एव तस्यामान्नात्मोपरागात् । न तु परमार्थत आत्मनोऽविद्यया
तत्कार्येण वा सम्बन्धोऽभूदस्ति भविष्यति वा तस्यापडश्यानुरक्तं तद्रष्ट दृश्यं  द्रष्ट्रनुरञ्जितम् ।
 आईवृत्योभयं रतं तन्नाशेऽद्वैततात्मनः ॥ ५३ ॥
इह केचिच्चोदयनित योऽयमन्वयव्यतिरेकाभ्यामनामायोत्सारितोऽहङ्कारो वाक्यार्थप्रतिपत्तये सोऽयं विपरीतार्यः संवृत्तो यस्मादहंब्रह्मास्मीति ब्रह्माहम्पदार्थयोः
थात्म्येति ॥ ५२ ॥


 यदुक्तं “अहं तदुभयं बिभ्रद्भरान्तिमात्मनि यच्छतीति' तत्प्रपञ्चयितुमाह सर्वस्येति । आत्मनः कूटस्थनिर्विभागचैतन्यमात्रशरीरस्य द्वैतानर्थसम्बन्धहेतुरविद्यानिर्मितशरीरोऽहङ्कार एव कुतस्तस्याहङ्कारस्य द्वैतेनानथेनात्मना चोपरक्तत्वेन द्वैतस्यात्मनि प्रापकत्वादित्यर्थः । नन्वहङ्कारव्यतिरकेणैवात्मनः सर्वेरपि सम्बन्धसम्भवादनर्थः स्यादित्याशङ्कय जानाम्यनुभवामीत्यनर्थरूपसम्बन्धः कालत्रयेऽप्यहङ्कारव्यतिरिक्ताधिष्ठानचैतन्ये न सम्भवतीत्याह न तु परमार्थत इति । दृश्यानुरक्तमिति । दृश्यै शब्दादिभिरनुरक्तं सम्बद्धमन्तःकरणं स्वात्मनि प्रतिबिम्बितचैतन्याभासात्तेषां द्रष्ट भवति तदेव च द्रष्ट्रात्मचैतन्यानुरञ्जितं सत्तस्य चैतन्यस्य दृश्यमवभास्यामिव भवति तदेवमुक्तन्यायेनाहंवृत्योभयमपि द्रष्ट दृश्यं चेत्येतदनुरक्तमहमिदं जानामीति तेनात्यन्तविचित्क्तयोर्दष्टदृश्ययोः सम्बन्धहेतुरहङ्कार एवेति तन्निवृत्तावात्मनोऽद्वैतत्वं युक्तमित्यर्थः ॥ ५३ ॥

 ननु तत्त्वमस्यादिवाक्यार्थप्रतिपत्त्यर्थ त्वंपदार्थशोधनत्वेनाहङ्कारस्यानात्मत्वमुक्तं तदयुक्तं तस्यानात्मत्वेऽहं ब्रह्मास्मीति श्रूयमाणसामानाधिकरण्यानुपपत्तिप्रसङ्गादिति शङ्कत इह केचिदिति । ननु न सामाना-