पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


न चायं क्रियाकारकफलामक आभास ईषदपि परमास्पृशति तस्य मोहमात्रोपादानत्वात् ।
 अभताभिनिवेशेन स्वात्मानं वञ्चयत्ययमम् ।
 असायपि द्वितीयेऽर्थे सोमशर्मपिता यथा ॥ ५१ ॥
वस्तुयाथात्म्यानवबोधप
टलावनद्वाक्षः सन् ।
 सुभूः सुनासा सुमुखी सुनेत्रा चारुहासिनी ।
 कल्पनामात्रसम्माहाद्रामात्यालङ्गतऽशुचम् ॥ ५२ ॥


 विरुद्धधर्माणामात्मनि सम्भवे तस्यासङ्गत्वव्याघात इत्यत आह न चायमिति । अनिर्वचनीयाज्ञानपरिकल्पितद्वैतप्रपञ्चसम्बन्धेनात्मनोऽसङ्गत्वं न व्याहन्यते वस्तुतस्तत्स्पशभावात् । न ह्यविद्यापरिकल्पितनीलिमगुणेन गगनं नीलीक्रियते ततश्च नासङ्गत्वव्याघात इत्यर्थः । अभूताभिनिवेशेनेति । असत्यपिद्वैतप्रपञ्चे मिथ्याभिनिवेशेनैवाहं सुखी दुःखीति स्वमात्मानमयं लोको वञ्चयतीत्यर्थः । तत्र दृष्टान्तः सोमशर्मपितेति । कश्चिदतिदरिद्रो ब्रह्मचारी बह्वाशी भिक्षमाणः कदाचिदुभिक्षकाले सकुमुष्टिं बध्वा निर्वेदात्कमिश्चित्पर्वते वृक्षच्छायायां शयान एवं मनोरथयांत स्म । सत्कुमुष्टिबन्धनं मुक्त्वा तेन काश्चन गाः क्रीता वर्धयिष्यामि । ताश्च पञ्चषङ्कत्सरादनेकानडुहः प्रसविष्यन्ति ततो यथेष्टं कर्षयिष्यामि। ततो धनधान्यादिसमग्रं भविष्यति । ततो दासीदासादिबहुलं गृहं संपादयिष्यामि । ईदृशीं संपदं दृष्टा योग्यतमः कश्चित्स्वकन्यां महां प्रदास्यति पश्चाद्यथाविधानं गार्हस्थ्यमनुभविष्यामि । ततो वंशकरं पुत्रमुत्पाद्य सोमशर्मेति नाम कृत्वा पश्चात्कुटुम्बसौख्यानुभवसमये रुदन्तं मातरमनुगतं सोमशर्माणं स्वकार्यपारवश्यात्तमनादृत्य गच्छन्तीं स्वां भार्या दृष्टा पुत्रनिमित्तकोपेन स्वां भार्यामताडयत् । ततो भिक्षापात्रं करघाताद्विधापतत्सत्क्तवश्च वायुवेगादपासरन् । पश्चाद्हो कष्टं नष्टोऽस्मि मन्दभाग्योऽहं सक्तवश्व ममापगच्छन्कि करिष्यामीति प्रबुद्धः सन्पिता व्यलपत् । तत्तदेतदृष्टान्तत्वेनोदाहरतीत्यर्थः ॥ ५१ ॥

 कल्पनाया अयथावस्तुव्यवहारहेतुत्वे दृष्टान्तान्तरमाह वस्तुया-