ययोक्तार्यस्य प्रतिपत्तये दृष्टान्तः ।
मित्रोदासीनशत्रुत्वं यथैकस्यान्यकल्पनात् ।
अभिमन्त्रस्य चितेस्तद्वज्ञेदोऽन्तःकरणाश्रयः ॥ ४ ॥
अपहारो यथा भानोः सर्वतो जलपात्रकैः ।
तक्रियाकृतिदेशाप्तिस्तथा बुद्धिभिरात्मनः ॥ ४९ ॥
न च विरूद्धधर्माणामेकत्रानुपपतिः । किंकारणम् ।
वकल्पितानामवस्तुत्वात्स्यादेकत्रापि सम्भवः ।
कमनीयाऽशुचिः स्वाङ्गीत्येवकस्यामिव योषिति ॥ ५० ॥
अन्तःकरणोपाधिनिबन्धनो भेद इत्यत्र दृष्टान्तान्तरमाह यथोक्ताथेति । यथैकस्यैव देवदत्तस्य पुरुषान्तरकल्पनावशान्मित्रोदासीनशत्रुत्वमेवमभिन्नस्यापि चैतन्यस्य बुद्धयुपाधिनिबन्धनो भेदो न स्वतो नापि परत इत्यर्थः । चितेरित्यर्थविवक्षया धातुनिर्देशस्ततश्चाभिन्नस्य चितेरिति पुलिङ्गसमभिव्याहार उपपद्यते ॥ ४८ ॥
ननु स्वमहिमप्रतिष्ठस्य पूर्णस्य चैतन्यस्य सर्वान्तःकरणप्रतिबिम्बितत्वं तद्धर्मवत्वं चायुक्तमित्याशङ्कयाह अपहार इति । यथा खदेशस्थस्यैवादित्यस्य जलपात्रेण स्वगतत्वेनापहारस्तत्क्रियादिश्च भवति तद्धत्स्वमहिमप्रतिष्ठस्यापि चैतन्यस्यान्तःकरणप्रतिबिम्बितत्वम् । तत्क्रिया तद्रतध्यानादिक्रिया । तदाकृतिः स्वच्छत्वपरिच्छिन्नत्वादि । तद्देशेन हृदयप्रदेशेन च सम्बन्धश्ध सम्भवतीत्यर्थः ॥ ४९ ॥
ननु सर्वभूतेष्वेक एव चेदात्मा तर्हि तस्य युगपदेव परस्परविरुद्धसुखदुःखरागद्वेषभ्रान्तिसम्यग्ज्ञानाद्याश्रयत्वं प्रसज्येत तञ्चानुपपन्न तत्कथमुत्तं “दृगेका सर्वभूतेष्विति” । तत्राह न च विरुद्धेति । विरुद्धधमर्माणामप्यविद्यापरिकल्पितत्वादेकस्मिन्धर्मिणि समावेशो नानुपपन्नः । यथैवकस्मिन्नपि ख्श्रीदेहे वस्तुभेदमन्तरेणापि वासनावशात्कामुकपरिवाजकशुनां कमनीयाशुचिस्वाद्वितिविरुद्धधर्मपरिकल्पना तद्वदित्यर्थः ॥ ५० ॥