कुतो मिथ्यासिद्धावं द्वैतस्येति चेत् ।
न पृथङ्गात्मना सिद्धिरात्मनोऽन्यस्य वस्नुनः।
आत्मवत्कल्पितस्तस्मादहङ्कारादिरात्मनि ॥ ४५
तस्मादज्ञानविजूम्भितमेतत् ।
दृश्याः शब्दादयः कृझा द्रष्ट च ब्रह्म निर्गुणम् ।
अहं तदुभयं बिभ्रद्भातिमात्मनि यच्छति ॥ ४६ ॥
तत एवेयमभिन्नस्यात्मनो भेदबुद्धिः ।
दृगेका सर्वभूतेषु भाति दृश्यैरनेकवात् ।
जलभाजनभेदेन मयूखस्रग्विभेदवत् ॥ ४७ ॥
रुक्पृथगित्यर्थः। नन्वात्मनःपृथक्त्वेऽपि द्वैतं साङ्खयानामिव पारमार्थिकं स्यादित्यत आह मिथ्यासिद्धमिति । तथाप्यन्यथाख्यातिप्रभृतीनामिव मिथ्यात्वं स्यादित्यत अाह अनात्मकमिति । अन्नात्मक सत्स्वभावरहितमित्यर्थः । सत्यात्मकार्यस्य कथमेवंविधत्वमित्यत आह मोहमूलमिति । तदेव कथमित्यत आह सुदुबधमिति । प्रमाणयुक्तिभ्यां दुर्निरूपमित्यर्थः ॥ ४४
एतदेवोत्तरश्लोकेनोपपाद्यत इत्याह कुतो मिथ्यासिद्धत्वमिति । न पृथगिति । सद्रपाज्ज्ञानस्वभावादात्मनोऽनन्यत्वादेव न पृथक्सत्ताप्रतीती जडस्य सम्भवतः । नापि प्रत्यगात्माभेदेन प्रत्यगात्मवत्सिद्धिर्जडाजडयोरभेदायोगात् । तस्मादहङ्कारादिरात्मनि कल्पित इत्यर्थः ॥ ४५ ॥
फलितमाह तस्मादिति । दृश्यत्वेन द्रष्टत्वेन सत्यत्वेनानृतत्वेनात्यन्तविविक्तयोरात्मानात्मनोर्वस्तुतः सम्भेदाभावेऽप्यहङ्कारोपाधौ द्वयोः प्रतिबिम्बितत्वाद्दर्पणतले प्रतिबिम्बितयोलोहितमुखयोलोहितं मुखमिति परस्परसम्भेदाध्यासवङ्गान्त्यैव कर्तृत्वादिसम्बन्धप्रतिभास इत्यथः ॥ ४६ ॥
न केवलमनात्मसम्बन्ध एवाहंनिबन्धनः प्रतिदेहमात्मनो भेदोऽपि तन्निबन्धन एवेत्याह तत एवेयमिति । मयूखस्रग्वी रश्मिमाली ॥ ४७ ॥