सामग्री पर जाएँ

पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


स्वसम्प्रदायस्य चोदितप्रमाणपूर्वकत्वज्ञापनाय विशिषट गुणसम्बन्धसङ्कीर्त्तनपूर्विका गुरोर्नमस्कारक्रिया ।

 अलब्ध्वातिशयं यस्माद्यावृतास्तमबादयः ।
 गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने ॥ २ ॥


पञ्चीकृतानि पञ्चमहाभूतान्युच्यन्ते तानि भूतान्यन्तं लयं यस्य भागांतशब्देनापञ्चीकृतानि पञ्चमहाभूतान्युच्यन्ते तानि भूतान्यन्तं यस्य पञ्चीकृतभूतलक्षणस्य जगतस्तत्खानिलायब्धरिञ्यन्तमित्यनुपात्तं विशेष्यम् । बहुत्रीहित्वाज्जगदित्येवकै पद्मध्याहरणीयम् । अथवा । उद्रतमिति कार्यजातमुच्यते तदेव विशेष्यम् । तत्खानिलायब्धरित्र्यन्त कायजातं यतो भवतीति क्रियाध्याहारः । यदि च खं चानिलञ्धाग्विश्धापश्रेति खानिलायब्धरित्री यस्यान्तं तद्धरित्र्यन्तम् । किं तद्धरिञ्यन्तमित्याकाङ्कायां खानिलायबितिसंबन्धः । तत्खानिलायब्धारित्र्यन्त । स्रक्फणीवेत्यादि । स्रजः फणीव उद्रतमुन्दूतम् । तस्मै ध्वान्तच्छिदे बुद्धिसाक्षिणे हरये नम इति संबन्धः । स्रक्फणीवेत्यारम्भपरिणामचादव्युदासाय । हरये बुद्धिसाक्षिण इति सामानाधिकरण्यं प्रत्यगात्मपरमात्मनोरेकत्वलक्षणाविषयद्योतनाय । ध्वान्तच्छिद् इत्यज्ञाननिवृत्तिलक्षणप्रयोजनकथनाय ॥ १ ॥

 इदानीमुत्तरश्लोकतात्पर्यमाह स्वसंप्रदायस्येति । स्वसंप्रदायः स्वेन संप्राप्तो विद्योपदेशस्तस्य । चशब्दो देवतानमस्कारेण गुरुनमस्कारस्य समुच्चयार्थः । तस्योदितं प्रमाणमाचार्य । * आचार्यवान्पुरुषो वेद “आचार्याद्वैव विद्या विदिता साधिष्ठं प्रापदि'त्यादिश्रुतिभ्यस्तत्पूर्वकत्वज्ञापनाय । चोदितप्रमाणेतिवा पदच्छेदस्तत्रायमेवार्थः । उदितप्रमाणेतिपाठेऽप्ययमेवार्थः । विशिष्टगुणैराचार्यस्य यः संबन्धस्तत्कीचर्तनपूर्विका गुरोर्नमस्कारक्रिया प्रदश्यैत इति शेषः । यद्वा । येयं नमस्कारक्रिया सा स्वसंप्रदायस्योदितप्रमाणपूर्वकत्वज्ञापनायेति संबन्धः । अलब्ध्वेति । यस्माद्भरोरन्यत्रातिशयमलब्ध्वा तमबाद्यः प्रत्यया विप-

  • *