पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


ग्ज्ञानम् । अतोऽशेषवेदान्तसारसङ्कहप्रकरणमिदमार भ्यते । तत्राभिलषितार्थप्रचयाय प्रकरणार्यसंसूत्रणाय खानिलायब्धरित्र्यन्तं स्रवक्पफणीवोङ्गतं यातः । ध्वान्तच्छिदे नमस्तसै हरये बुद्धिसाक्षिणे ॥ १ ॥ वेदोषरा वेदान्ता' इति मतनिरासेन प्रामाण्यरसूचनाय । वाक्यग्रहणं च न कर्मशेषतया तेनैकवाक्यत्वं किंतु स्वतन्त्रतयेति द्योतनाय । एव कारश्च वाक्याभ्यासादेशनकारणत्वनिरासाय । इदानीं प्रकरणलक्षण मुपपाद्यन्प्रकरणारम्भमुपपादितमुपसंहरति अतोऽशेषेति । यत उक्त रीत्या प्रयोजनादीनां सद्भावः साधनान्तरानधीनं च प्रयोजनमत इत्यर्थः । अत्राशेषवेदान्तशब्देन शास्त्रं दशितम् । तत्रापि निष्प्रपञ्च ब्रह्मप्रतिपादकशात्रैकदेशेन संबन्धद्योतनाय सारग्रहणम् । तत्रापि वि स्तरेण प्रतिपादितस्य संक्षेपेण प्रतिपन्नं कार्यान्तरं दर्शयितुं संग्रहग्रह णम् । तदेवं “शास्त्रैकदेशसंबद्धं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रक रणं नाम ग्रन्थभेदविपश्चित” इत्युक्तलक्षणलक्षितमिदं प्रकरणमिति । इदानीं प्रतिश्लोकं संबन्धमाचक्षाणः प्रथमश्लोकस्य तात्पर्य कथयन्सं बन्धमाह तत्राभिलषितेति । तत्र प्रकरणेऽयमाद्यः श्लोकोऽभिलपितार्थ स्याभिलषितोऽर्थः प्रकरणं तस्य प्रचयाय शिष्यपरंपरया शिापारि ग्रहाय । उपलक्षणमिदमविश्वपरिसमाप्तिशिष्टाचारपरिपालनयोरिष्टदे विद्यायामन्तरङ्गसाधनत्वसूचनस्य प्रकरणस्याथ चि षयः प्रयोजनं च तयोः सम्यक्सूत्रण संक्षेपेण स्सूचन्न तस्मै च । तत्र हेतुमाह अयमाद्यश्लोक इति । यस्माद्यमाद्यश्लोकस्तस्माच्ट्रेोतृणां प्र वृत्यङ्गतया सुखावबोधाय चात्रैव सूचनायामष्टद्वतान्नमस्कारश्ध क रणीय इति । खानिलेति । खं चानिलश्चाश्चिापश्च धरित्री च खानि लाग्यब्धरिञ्जयः । अन्तःशब्दः स्वरूपवचनः स्वप्रान्तं बुद्धान्तमिलयादि वत् । खानिलायब्धरित्रीस्वरूपम् । यद्वा । खानिलाध्यव्धरित्रीशब्देन