न्त्रस्यामस्वभावत्वात्तस्यानवबोधः पिधानम् । अतस्त
स्यायन्तोच्छितावशेषपुरुषार्थपरिसमाप्तिः । अज्ञाननि
वृतेश्च सम्यग्ज्ञानस्वरूपलाभमात्रहेतुत्वात्तदुपादानम् ।
अशेषानर्थहेत्वामानवबोधविषयस्य चानागमिकप्रत्यक्षा
दिलौकिकप्रमाणाविषयावाद्वेदानागमवाक्यादेव सभ्य
न्त्रस्येति । कारणानधीनस्येत्यर्थः । इतश्धानागमापायित्वमपरतन्त्रत्वं चोचितमित्याह आत्मस्वभावत्वादिति । सुखमनागमापायि अपरतन्त्रं चात्मस्वभावत्वादात्मवदित्यर्थः । “एषोऽस्य परम आनन्द्’ “आत्मै वानन्द' इत्याद्यागमान्निरुपाधिकप्रेमास्पद्त्वलिङ्गाञ्च सुखस्यात्मस्व भावत्वमवगन्तव्यम् । ननु सुखस्यानवबोधः पिधायकोऽस्तु ततः कि मित्यत आह अतस्तस्येति । तस्यानवबोधस्याल्यन्तमनवशेषेण भूय श्धान्ते विश्वमायानिवृत्तिरिति न्यायेन निवृत्तावशेषसकलदुःखनिवृ त्तिरूपस्य निरतिशयानन्दाववातिलक्षणस्य च पुरुषार्थस्य परितः सम्य गाप्तिः स्यादित्यर्थः । ननु भवत्वेवं तथापि कर्मोपासनादिपरिहारेण विशिष्टाधिकारिणः सम्यग्ज्ञान एव कुतः प्रवृत्तिर्येन सम्यग्ज्ञानाय प्रक रणारम्भसंभव इत्यत आह अज्ञाननिवृत्तेश्चेति । सम्यग्ग्रहणेनोपासना ज्ञानं व्यावर्तयति स्वरूपलाभग्रहणेन ज्ञानाभ्यासं मात्रपदेन च कर्मा पेक्षाम् । तदेवमुपायान्तरपरिहारेणाधिकारिणः सम्यग्ज्ञानोपादानमेव संभवतीत्यर्थः । भवतु सम्यग्ज्ञानस्योपादानं तथापि तस्य प्रमाणान्त राद्प्युपपत्तेर्वेदान्तप्रकरणादिष्वेव तद्भर्थिनः कुतो नियमेन प्रवृत्तिरि त्यत आह अशेषानर्थहेत्विति । अशेषानर्थहेत्वात्मानवबोधविषय आत्मा तस्याज्ञानविषयस्यात्मन इति यावत् । आगमिकमागमवाक्यजन्यं सा क्षात्कारलक्षणं तन्न भवतीत्यनागमिक प्रत्यक्षम् । आदिशब्देनानुमा नादि “यत्प्राणेन प्राणिति येन वा पश्यती'त्याद्यस्ति तद्विषयत्वशङ्काप नोदायाह अनागमिकेति । कानि तानीत्यत आह लौकिकप्रमाणेति । तेषां चात्मा न विषयो रूपाद्यभावात्तत्संबन्धलिङ्गाद्यदर्शनाञ्च । तदेवमनन्य साधारणत्वादुपनिषदामेवात्मा विषय इत्याह वेदान्तेति । आगमग्रहणं