षास्पदत्वाद्रागद्वेषयोश्च शोभनाशोभनाध्यासनिबन्धनत्वादध्यासस्य चाविचारितसिद्धद्वैतवस्तुनिमित्तत्वाद्वैतस्य च शुक्तिकारजतादिवासर्वस्यापि स्वतःसिद्धाद्वितीयात्मानवबोधमात्रोपादानावादव्यावृतिः । अतः सर्वानर्थहेतुरात्मानवबोध एव । सखस्य चानागमापायिनोऽपरत-
च्छेदो भविष्यतीत्यत आह कर्मणश्चेति । व्यक्तिरूपेण विच्छिद्यमानस्यापि कर्मजातस्य रागद्वेषप्रयोज्यत्वात्तयोः स्थितो न तत्सन्तानविचच्छेद इत्यर्थः । रागद्वेषयोरपि कार्यत्वात्स्वत एव निवृत्तिरित्याशङ्कयाह रागद्वेषयोश्धेति । विषयेषु शोभनं रमणीयमिदमिति यः प्रत्ययो यश्च तद्विपरीतमशोभनमिति प्रत्ययस्तावव्यभिचारिणि विपये व्यभिचारित्वाद्विभ्रमभूतो तयोश्च स्थितयोर्न तजन्यरागद्वेपसन्तानविच्छेद इत्यर्थः । तयोरप्यध्यासयोरनित्यत्वात्स्वत एव निवृत्तिमाशङ्कयाह अध्यासस्येति । अध्यासस्य द्वेतप्रपञ्चनिबन्धनत्वात्तस्मिन्विद्यमाने निवृत्तिर्न स्यादित्यर्थः । द्वैतप्रपञ्चस्यापि कार्यत्वादनित्यत्वमाशङ्कयाह द्वैतस्य वेति । सर्वस्यापि द्वैतप्रपञ्चस्य स्वतःसिद्धत्वात्स्वयंप्रभत्वादद्वितीयो द्वितीयशून्यो योऽयमात्मा तस्य तस्मिन्योऽयमनवबोधः स्वतःसिद्धतया सततमःतरूपेण प्रकाशप्राप्तौ तथा प्रकाशादर्शनाच्छुक्तिकारजतादिवद्विपरीतरूपप्रकाशदर्शनाञ्च तद्धेतुतया कल्पितस्तन्मात्रोपादानत्वात्तस्मिन्विइद्यमाने तस्य न निवृत्तिरित्यर्थः । तदेवमज्ञानस्य द्वैतप्रपञ्चाध्यासरागद्वेषप्रवृत्तिधर्माधर्मदेहोपादानत्वात्परंपरया दुःखहेतुत्वात्तस्मिन्सति दुःखस्योपायान्तरेण न निवृत्तिरित्युपसंहराति अत इति । न केबलमसी सर्वानर्थहेतुरात्मस्वभावतया सततमपरोक्षावभासयोग्यतां प्रामस्य रखस्यापि तिरोधायकस्तस्मात्तन्निवृत्तो निरतिशयसुखावास्मिन्मने सम्यग्झानात्सिध्यतीत्यभिप्रेत्याह सुखस्य चेति । आगमश्धापायश्धागमापायावुदयास्तमयौ ती विद्येते यस्य तदागमापायि नागामापायनागमापाय तस्येत्यर्थः । अनागमापायित्वं कुत इत्यत आहः अपरत-