रस्ति स्वरसत एव । दुःखस्य चं देहोपादानैकहेतुत्वाद्देहस्य च पूर्वोपचितधर्माधर्मम्लत्वादनुच्छितिः । तयोश्र विहितमतिषिड्वकर्ममूलत्वादनिवृतिः । कर्मणश्च रागद्वे-
रेणेति यावत् । इदमत्र तात्पर्यम् । यद्यप्यतीतं दुःखमतीतत्वादेव निवत्यै नापि वचर्तमानं स्वत एव निवृत्तेनप्यनागतमनुपस्थितेरेव निवत्तेयितुमयोग्यत्वात्तथाप्यनागतं दुःखं तद्धेतुनिवर्तनेन शक्यमेव निवर्तयितुमतः संभवत्येव निखिलदुःखनिवृत्तिकामोऽधिकारीति । नन्वाध्यात्मिकदुःखस्याधिव्याधिप्रभवस्यायुर्वेदविहितोपायैराधिभौतिकस्य च शत्रुव्याघ्रादिजन्यस्यान्वयव्यतिरेकसिद्धतत्तत्साधनैराधिदैविकस्य चातिवातातिवर्षणादिनिमित्तस्य शान्तिकपौष्टिकादिना निवृत्तिः स्यात्ततः प्रकरणस्य न प्रयोजनमन्यत एव सिद्धेरित्याशङ्कयात्यन्तिकदुःखनिवृत्तिलक्षणप्रयोजनस्य प्रकरणप्रतिपाद्यात्मविद्याव्यतिरिक्तसाधनान्तरासाध्यत्वं दर्शयति दुःखस्य चेत्यादिना अशेषपुरुषार्थपरिसमाप्तिरित्यन्तेन । देहस्य कार्यकारणसंघातलक्षणस्योपादानमहंममग्रहः स एवैको मुख्यो हेतुर्यस्य तदुःखं देहोपादानैकहेतुस्तस्य भावस्तत्वं तस्मादिति धिञ्श्रहः । दुःखस्यानुच्छित्तिरिति वक्ष्यमाणेन संबन्धः । यद्यपि कदाचिवविकचिदुःखं देहे सत्यपि निवत्र्यमानमुपलभ्यते तथापि स्वसमानाधिकरणदुःखान्तरप्रागभावासमानकालीनदुःखनिर्तृत्तेर्देहोपादाने सत्यसंभवान्न हि तन्निवृत्तिरुपायान्तरसाध्येति भावः । एवमपि कार्यत्वादुपादीयमानदेहस्य स्वयमेव निवृत्तेः किमत्र विद्ययेत्यत आह देहस्य चेति । देहस्य देहसन्तानस्य पूवः क्तिनदेहैरुपचितावुपार्जितौ। यौ धर्माधर्मौ तद्धेतुवकत्वात्तयोः सतोनच्छित्तिरित्यर्थः । एवमपि धर्माधर्मयोरुपभोगेन क्षये सति कारणाभावाद्देहसन्तानस्यापि विच्छेदो विष्यतीत्यत आह तयोश्चेति । तयोरपि धर्माधर्मयोर्विहितप्रतिषिद्धे ये कर्मणी यजनब्रह्महननादिव्यापारलक्षणे तजन्यत्वात्तयोः स्थितौ न निवृत्तिरित्यर्थः । विहितनिषिद्धकर्मणोरपि क्षणिकत्वात्स्वयमेव वि-