पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैष्कम्र्यसिद्वि

चन्द्रिकासहिता ।

आब्रह्मस्तम्बपर्यनैः सर्वप्राणिभिः सर्वप्रक्रारस्यापि दुःखस्य स्वरसत एव जिहासितावातन्निवृत्त्यथर्या प्रवृति


श्रीगणपतिसरस्वतिसद्भरुभ्यो नमः ।

ॐ । विष्णोस्तत्परमं धाम द्योतमानं निजश्रिया ।
अनन्तामितमद्वैतमात्मभूतं पुनातु नः ॥ १ ॥
तेजखैयम्वकं भूयाद्भयसे श्रेयसे मम ।
यदाचामति निःशेपं भक्तानां भववारिधिम्॥ २॥
नैष्कम्र्यसिद्यभिधया सुधया सुधियां व्यधात् ।
योऽमृतत्वं नमामस्तं सुरेश्वरसुधानिधिम् ॥ ३ ॥
तकदग्रनखोद्भिन्नवादिदैत्यभुजान्तरः ।
प्रह्मादयतु नः शश्चज्ज्ञानोत्तममृगोत्तमः ॥ ४ ॥
चोलेषु मङ्गलमिति प्रथितार्थनान्नि
ग्रामे वसन्पितृगुरोरभिधां दधानः ।
ज्ञानोत्तमः सकलदर्शनपारद्रष्टा
नैष्कम्यैसिद्धिविवृतिं कुरुते यथावत् ॥ ५ ॥

 व्याविख्यासितायाः श्लोकसंदर्भरूपाया नैष्कम्यैसिद्धेरधिकारिप्रयो जनतत्साधनसंबन्धविषयाणामभावादनारम्भमाशङ्कय स्वयमेव संव न्धोतिं कुर्वन्नाचार्यः प्रकरणारम्भसिद्धयर्थ क्रमेण तानुपपादयति आा ब्रह्मस्तम्बपर्यन्तैरित्यादिना प्रकरणमिदमारभ्यत इत्यन्तेन ग्रन्थेन । तत्र तावदधिकारिणमुपपादयति तन्निवृत्त्यर्था प्रवृत्तिरस्ति स्वरसत एवे त्यन्तेन । आब्रह्म च ते स्तम्बपर्यन्ताश्धेत्याघ्रह्मस्तम्बपर्यन्तास्तैश्चतुर्मुख प्रभृतिभिः स्तम्बावसानैः प्राणिभिरिति यावत् । सर्वप्रकारस्याध्यात्मि वकादिभेदभिन्नस्य स्वरसत एव स्वभावत एव श