पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमोऽध्यायः ।

नमस्कारनिमित्तस्वाशयाविष्करणार्यः ।
 वेदानोदरसङ्गढं संसारोत्सारि वस्तुगम् ।
 ज्ञानं व्याकृतमप्यन्यैर्वक्ष्ये गुर्वनुशिक्षया ॥ ३ ॥
किंविषयं प्रकरणमिति चेत्तदुपन्यासः ।
 यसिद्धाविदमः सिद्धिर्यदसिद्दौ न किञ्चन ।
 प्रत्यग्धर्मकनिष्ठस्य याथात्म्यं वक्ष्यते स्फुटम् ॥ ४ ॥


याभावादेव व्यावृत्तास्तस्मिन्नेव परितिष्ठन्ति तस्मै गरीयसे नम इत्यन्वयः । तत्र हेतुमाह अविद्याग्रन्थिभेदिन इति । स्वस्यान्यैरभेद्याविद्याग्रन्थिभेतृत्वादुरोरेवंविधता सिद्धेत्यर्थः ॥ २ ॥

समनन्तरश्लोकाभिप्रायमाह नमस्कारनिमित्तेति । नमस्कारस्य निमित्तभूतो यः स्वस्याशयोऽभिप्रायविशेषो येनाभिप्रायेण नमस्कार कृतस्तस्याविष्करणार्थमुत्तरश्लोक इत्यर्थः । वेदान्तेति । ज्ञानं वक्ष्य इतिसंवन्धः । किंप्रमाणकं तदित्यत आह वेदान्तोदरसंगृढमिति । वेदान्तानामुदरेष्वन्तरेषु संगूढं संछन्नमशुद्धबुद्धिभिरप्राप्यत्वात् । किप्रयोजनं तदित्यत आह संसारोत्सारीति । किंविषयं तदित्यत आह चस्तुगमिति । समस्तद्वैतकल्पनाधिष्ठानभूतात्मतत्त्वविषयं तदित्यर्थः । नन्वेतस्य ज्ञानस्य बहुभिव्यकृतत्वात्किमिति त्वया ताक्रियत इत्यत आाह व्याकृतमपीति । बहुभिव्यकृतमपि गुर्वनुशिक्षया त्वया ग्रन्थः क र्तव्य इति गुरोरनुशासनेन तदाझापारिपालनायाहं तद्वक्ष्य इत्यर्थः ॥३॥ ननु सामान्यतः सिद्धं विशेपेणाप्रसिद्धं च वस्तु विषयो भवति ब्रह्म तु निःसामान्यविशेपमद्वितीयत्वाद्तः कथं तद्विषयत्वं प्रकरणस्येत्याक्षिपति किंविषयमिति । तत्समाधानायोत्तरश्लोक । इत्याह तदुपन्यास इति यद्विप्पयमिदं प्रकरणं तस्य विषयस्योपन्यास इत्यर्थः । यत्सिद्धाविति । यस्य चिदात्मनः सिद्धावन्तःकरणादावाभासोदयात्स्फुटतरव्यवहारयोग्यत्वे सतीदमः प्रमात्रादेरनात्मनो जडस्य सिद्धिः स्फुरणम् । यदसिद्धौ यस्यात्मनोऽन्तःकरणादाचाभासानुद्यादसिद्धौ स्फुटतरव्यवहारायो-