वर्चस्के सम्परियते दोषतश्रावधारिते ।
यदि दोषं वदेतस्मै किं तत्रोचरितुर्भवेत् ॥ १६ ॥
तद्वत्सूक्ष्मे तथा स्थूले देहे त्यते विवेकतः ।
यदि दोषं वदेताभ्यां किं तत्र विदुषो भवेत् ॥ १७ ॥
एतावदेव ह्यहं ब्रह्मास्मीति वाक्याथर्याप्रतिपत्तौ कारणं यदुत बुद्धयादौ देहान्ते ह्यहंममेति निःसन्धिबन्धनो ग्रहस्तव्द्यतिरेके हि न कुतश्चिद्विभज्यत एकल एव प्रत्यगात्मन्यवतिष्ठत इत्याह ।
रिपौ बन्धौ स्वदेहे च समकात्म्यं प्रपश्यतः ।
विवेकिनः कृतः कोपः स्वदेहावयवेष्विव ॥ १ ॥
इतश्रानात्मा देहादिः ।
घटादिवच दृश्यत्वातैरेव करणैर्डशेः ।
स्वशे चानन्वयाज्ज्ञेयो देहोऽनात्मेति सूरिभिः ॥१९॥
एवं स्थूलसूक्ष्मदेहद्वयव्यतिरिक्तात्मवेदनस्य दृष्टमेव फलं सर्वानर्थ बीजभूतरागद्वेषयोनिवृत्तिरिति सदृष्टान्तमाह यथोक्तार्थेत्यादिना । उचरितुरुत्स्रष्टुरित्यर्थः ॥ १६ ॥
तद्वदिति ॥ १७ ॥
वाक्यार्थप्रतिपत्तिप्रतिबन्धकत्वादपि देहद्धयेऽहङ्कारममकारलक्षणो भेदाभिमानो विवेकिभिः परिहरणीय इति श्रोतृणां यलगौरवसाधनायाह् एतावदेवेति । निःसन्धिबन्धन इति । बाधकप्रत्ययश्शून्य. इत्यर्थः । विवेकस्य पुनः फलमाह तच्यतिरेके हीति । समैकात्म्यं प्रपश्यत इति । शत्रुदेहे मित्रदेहे स्वदेहे च निविशेषेकात्म्यमनुसंदधानस्येत्यर्थः ॥ १८ ॥
इदानीं दृश्यत्वादागमापायित्वाञ्च देहस्यानात्मत्वमित्याह इतश्चेति । यैः करणैर्घटाद्यो दृश्यन्ते तैरेव करणैर्दशेद्वैष्टुरात्मनो देहस्य दृश्यत्वा-