पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
द्वितीयोऽध्यायः ।


अथैवमपि मद्वचनं नाद्रियसे स्वयमेवैतस्माच्छरीरादशुचिराशेर्निराशो भविष्यसि ।
 मन्यसे तावदस्मीति यावदस्मान्न नीयसे ।
 श्वभिः क्रोडीकृते देहे नैवं त्वमभिमस्यसे ॥ १३ ॥
 शिर आक्रम्य पादेन भार्सयायपरान् शुनः ।
 दृष्टा साधारणं देहं कस्मात्सक्तोऽसि तत्र भोः ॥ १४ ॥
श्रुतिपरिप्रापितोऽयमर्थोऽनात्मा बुद्धयादिदेहान्त इतीदमाह ।
 बुसत्रीहिपलालांशैबीजमेकं त्रिधा यथा ।
 बुद्धिमांसपुरीषांशैरन्नं तद्वदवस्थितम् ॥ १५ ॥
ययोक्तार्थप्रतिपत्तौ सत्यां न रागद्वेषाभ्यां विक्रियते विपश्चिदित्यस्यार्थस्य प्रतिपत्तये दृष्टान्तः ।


 इदानीमपायित्वादप्यनात्मत्वमनुमेयमित्याह अथैवमपीति । मन्यस इति । तावदेव तव देहेऽहम्बुद्धिर्भवति यावदस्माद्देहादुत्क्रम्य न लोकान्तरं गमिष्यसि । गते तु सारमेयादयस्तमिमं देहं क्रोडीकुवरन् । क्रोडीकृते तु तस्मिन्निदानीमिवाभिमानो न भवतीत्यर्थः ॥ १३ ॥

 शरीरमेव तत्त्वमिति शरीरे ममत्वं विशेषतो न करणीयं शुनामपि साधारणत्वादित्याह शिर आक्रम्येति । भत्र्सयत्येकश्चेति शेषः ॥ १४ ॥

 यदुक्तं “तद्भागः सेन्द्रियो देह' इति तदसिद्धमिति नाशङ्कनीयं श्रुतिसिद्धत्वादित्याह श्रुतीति । यद्वा । न केवलमनुमानादेव देहेन्द्रिययोरनात्मत्वावगमः किंत्वागमादपीत्याह श्रुतीति । “अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्टो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं यो ऽणिष्टस्तन्मन’ इति शरीरस्य मनसश्चान्नकार्यत्वं दर्शयतीत्यर्थः ॥ १५ ॥