तथा पदपदार्थौ च न स्तो वाक्यमृते काचित् ।
अन्वयव्यतिरेकौ च तावृते स्तां किमाश्रयौ ॥ 5 ॥
अन्वयव्यतिरेकाभ्यां विना वाक्यार्थबोधनम् ।
न स्यातेन विना ध्वंसो नाज्ञानस्योपपद्यते ॥ ९ ॥
विनाज्ञानप्रहाणेन पुरुषार्थः सुदुर्लभः ।
तस्माद्यथोक्तसिद्धयथै परो ग्रन्थोऽवतार्यते ॥ १० ॥
वर्चस्कं त्वन्नकार्यत्वाद्ययानामेति गम्यते ।
तद्भागः सेन्द्रियो देहस्तद्वत्किमिति नेक्ष्यते ॥ ११ ॥ ।
आद्यन्तयोरनामत्वे प्रसिद्ये मध्येऽपि कः प्रतिबन्धः ।
प्रागनामैव जग्धं सदात्मतामेत्यविद्यया ।
स्रगालेपनवद्देहं तस्मात्पश्येद्विविक्तधीः ॥ १२ ॥
प्रमितिजनको वेद इति न्यायाञ्च नायं दोष इत्युत्तरश्लोकपञ्चकेन प्रतिपादयति नाविरक्तस्येत्यादिना । न चानिवृत्ततृष्णस्येति संसारादनिविवृत्सोरित्यर्थः ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥ अतोऽपेक्षितवाक्यार्थज्ञानसिध्यर्थमन्वयव्यतिरेकाभ्यां त्वंपदार्थपरिशोधनायोत्तरग्रन्थसंदर्भ इत्युपसंहारव्याजेनाह तस्मादिति ॥ १० ॥
यत्पुन“र्नाहंग्राह्ये न तद्धीन' इति तस्य शरीरेन्द्रियवर्गस्य चानात्मत्वं सूचितं तत्प्रपञ्चनायाह वर्चस्कमिति । वर्चस्कस्य पुरीषस्यान्नपरिणामरूपस्य यथानात्मत्वं गम्यते तद्वत्तद्भागयोरन्नपरिणामयोर्देहेन्द्रिययोरनात्मत्वमनुमानाद्वगन्तव्यमित्यर्थः ॥ ११ ॥ केवलमन्नकार्यत्वाद्नात्मत्वमनुमातव्यमन्नात्मत्वादप्यन्नवदेवानात्मत्वमनुमातव्यमित्याह आद्यन्तयोरिति । आद्यन्तयोरोदनपुरीषयोरनिवारितानात्मत्वप्रतिपत्तिरुदीर्यमाणा मध्ये देहेन्द्रिययोः केन प्रतिबद्धेत्यर्थः। आगन्तुकत्वादप्यनात्मत्वमनुमेयमित्याह स्रगालेपनचदिति ॥१२॥