पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/६५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


द्वितीयोऽध्यायः । ८८ नाहंग्राहो न तद्धीने न प्रत्यङ्गापि दुःखिनि । विरोधः सदसीत्यस्माद्वाक्याभिज्ञस्य जायते ॥ ५ ॥ नाविरक्तस्य संसारान्निविवृत्सा ततो भवेत् । न चानिवृततृष्णस्य पुरुषस्य मुमुक्षुता ॥ ६ ॥ न चामुमुष्झारख्ताह गुरुपादापसपणम् । न विना गुरुसम्बन्धं वाक्यस्य श्रवणं भवेत् ॥ ७ ॥ ननु न वय प्रमाणान्तरसवादाभावादप्रातपादक बूमः किन्तु तद्विरुद्धा र्थत्वादिति तत्राह नाहमिति। अहंग्राह्यमहंमनुष्य इत्यहंप्रत्ययवेद्य यच्छ रीरं तमिस्तत्वमसीति वाक्यश्रवणाद्विरोधप्रतिभासो न भवति तस्य त्वंपदानाभिधेयतया तत्पदार्थेन सामानाधिकरण्यानङ्गीकारात् । न त द्वीन इति । चक्षुषा पश्यामि श्रोत्रेण श्रृणोमीत्येवंकरणत्वेनानुभवादहं चक्षुः पश्यामीत्यननुभवाञ्चाहंप्रत्ययरहितेऽपि न विरोधप्रतिभासस्ते नापि सदसीति सामानाधिकरण्यानङ्गीकारात्तथा प्रत्यक्प्रतीचिप्रत्यगा त्मल्यापि न विरोधप्रतिभासस्त्वंपदलक्ष्यस्य तस्य तत्पदलक्ष्येणैकत्वावि रोधात्। अत्र प्रत्यक्शब्दोऽव्ययत्वात्सप्तम्यर्थे वर्त्तते। अन्चु गतिपूजनयो त्वग्द्धृक्स्रग्दिगुष्णिगधुयुजिकुञ्चामि'ति किन्प्रत्यया न्तात्प्रत्यक्शब्दः । * दिवशब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशका लेष्वस्तातिरि'त्यस्तातौ तद्धिते कृते तस्य चा“चेर्लगि'ति लुकिकृते तद्धितश्चासर्वविभक्तिरि'लव्ययत्वोपपत्तेः । तथा दुःखिनि सुखदुः खादिधर्मवदन्तःकरणविशिष्टऽपि न विरोधप्रतिभासस्तस्यापि त्वंशब्द वाच्यस्य तत्पदलक्ष्येणैकत्वानङ्गीकारात् । एवं वाक्यतात्पर्याभिज्ञस्य चतुष्र्वपि पदार्थेषु न विरोधबुद्धिस्तेन प्रमाणान्तराविरोधाभावादप्यप्र तिपादकत्वं वाक्यस्य न स्यादित्यर्थः ॥ ५ ॥ तर्हि वाक्यस्य प्रमाणान्तरसंवादापेक्षाभावात्ताद्विरोधाभावाच्च वा क्यश्रवणमात्रेण वाक्यार्थे सर्व एव प्रतिपद्येरन् । न च तथा प्रतिपद्यन्त इत्याशङ्कय तेषां वैराग्यमुमुक्षुत्वाद्यधिकारिविशेषणाभावादधिकारिणः