एताप्रसङ्गेन श्रोत्रन्तरोपन्यासमुभयत्रापि सम्भावनायाह ।
वाक्यश्रवणमात्राञ्च पिशाचकवदामुयात् ।
त्रिषु यादृच्छिकी सिद्धिः स्मर्यमाणे तु निश्चिता ॥ ३ ॥
नायमनैकान्तिको हेतुः । यतः ।
सर्वोऽयं महिमा ज्ञेयो वाक्यस्यैव यथोदितः ।
वाक्यार्थ नह्यते वाक्यात्कश्विजानाति तत्त्वतः ॥ ४ ॥
वाक्यं च प्रतिपादनाय प्रवृत्तं साग्रतिपादयत्येव सर्वप्रमाणानामप्यववृतत्वात् ।
कथं तर्हि वाक्यस्य । हेतुत्वाशङ्केति तत्राह एतत्प्रसङ्गेनेतिवाक्यव्यतिरेकेण विराट्प्रभृतीनां त्रयाणां ज्ञानं दृष्टम् । पिशाचकस्य पुनर्वाक्यश्रवणादपि तदृष्टमित्युभयत्रापि ज्ञानोत्पत्तिद्दर्शनान्न वाक्यमेव नियमेन ज्ञानजन्महेतुरिति ज्ञापनायेत्यर्थः । पिशाचकवदिति । पिशाचको नाम कश्चिदरण्यं गतः स्वकर्मणा तत्राधीयमानं तत्त्वमस्यादिवाक्यमाकण्र्यं जन्मान्तरसंस्कारवशात्तदैव वाक्यार्थ प्रतिपेद् इति लोके प्रसिद्धमित्यर्थः । अयं पुनरत्र विशेष इत्याह त्रिष्विति ॥ ३ ॥
इदानीं सिद्धान्तयति नायमिति । लिङ्गस्मरणस्य गमकत्वेऽपि न यथा लिङ्गस्यागमकत्वमेवं वाक्यस्मरणस्य गमकत्वेऽपि न वाक्यस्यागमकत्वं वाक्यस्मरणस्योभयत्रापि द्वारत्वादित्याह सर्वोऽयमिति । यत्पुनरुक्तं कृत्स्रानात्मनि वृत्ताविति तत्रापि प्रपञ्चाभावव्यतिरिक्तनिरतिशयानन्दरूपब्रह्मावगतिर्न वाक्यं विना सम्भवति तस्य वेदान्तवाक्यव्यतिरिक्तप्रमाणागोचरत्वादित्याह वाक्यार्थमिति ॥ ४ ॥
ननु वाक्यमपि प्रमाणान्तरसंवादाभावात्स्वार्थ निश्चाययितुं न शक्रोतीत्यत आह वाक्यं चेति । स्वविषयावबोधनाय प्रवृत्तानां प्रमाणानां प्रमाणान्तरसंवादापेक्षया कुण्ठितभावः कचिदपि न दृश्यत इत्यर्थः ।