पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/६३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


द्वितीयोऽध्यायः । ६१ योऽयमहंबझेति वाक्यार्थस्ताग्रतिपतिर्वाक्यादेवेति प्रत्य क्षादीनामनेवंविषयावादित्यवादिषं तस्य विशुद्धयर्थमनै कान्तिकावं पूर्वपक्षात्वेनोपस्थाप्यते । कृत्स्नानामनिवृत्तौ च कश्चिदाशोति निवृतिम् । श्रुतवाक्यस्मृतेश्चान्यः स्मार्यते च वचोऽपरः ॥ २ ॥ त्मनश्चेति । कथं पुनरात्माज्ञानानिवृत्तिरित्यत आाह सर्वानर्थेति । एवं प्रथमाध्यायेन समन्वये प्रदर्शिशते तत्र प्रत्यक्षादिविरोधाशङ्कायां तत्प रिहाराय द्वितीयाध्याय आारभ्यत इत्याह अतस्तदथेति । तस्य वाक्य स्याथप्रतिपत्तौ यत्कारणं पदार्थापरिज्ञानं तस्य प्रत्यक्षादिविरोधाशङ्का समुन्दूतासम्भावनाविपरीतभावनानिरासेनापनयनाय द्वितीयारम्भ इ त्यर्थः । पूर्वोत्तराध्याययोर्हतुहेतुमलुक्षणसम्बन्धो दर्शितः श्रावित इति । वाक्यार्थज्ञानस्य पदार्थप्रतिपत्तिपूर्वकत्वात्त्वंपदार्थाझाने सति तत्वम सीत्यतो वाक्याद्वाक्यार्थे श्रावितो यदि न जानात्यतस्तत्प्रक्रिया तस्य त्वंपदार्थस्य प्रक्रिया प्रतिपादनं क्रियत इत्यर्थः ॥ १ ॥ वृत्तसंकीर्त्तनपूर्वकमुत्तरश्लोकस्य तात्पर्यमाह योऽयमिति । वाक्यादे वेत्यत्रेतिशब्दः प्रकारवचनः । अहं ब्रहोत्येवंप्रकारा तत्प्रतिपत्तिरित्यर्थः । वाक्यव्यतिरेकेणापि प्रतिपत्तिदर्शनान्न वाक्यस्य नियतहेतुत्वमित्यनै कान्तिकत्वमेव दर्शयति कृत्स्न्नेति । कश्चिद्विमलमतिः कृत्स्नप्रपञ्चवि लापेन भेदकोपाधेरभावादेकत्वं वाक्यमन्तरेणापि प्रतिपद्यते यथा वि राडात्मा “यन्मद्न्यन्नास्ति कस्मान्नु बिभेमीतीति” कश्चिच्छुतं वाक्यं स्मृत्वा प्रतिपद्यते । यथा भृगुर्यतो वा इमानि भूतानि जायन्त' इति वाक्यस्मृतेः “आनन्दो ब्रह्मति व्यजानादि'ति । कश्चिदाचार्येण वाक्यं स्मार्यमाणोऽसम्भावनाविपरीतभावनाििनराकरणमुखेन साक्षादहमस्मि परं ब्रहोति वाक्यार्थ प्रतिपद्य मुच्यते यथा श्वेतकेतुर्नवकृत्वस्तत्त्वम सीति । श्वेतकेतुभृग्वोरेतयोरुभयोरपि वाक्यस्मरणमेव हेतुर्न वाक्य मिति त्रिष्वपि पक्षेषु न वाक्यं हेतुरित्यर्थः ॥ २ ॥