प्रत्यक्षादीनामनेवंविषयत्वातेषां खारम्भकविषयोपनिपातित्वादात्मनश्राशेषप्रमेयवैलक्षण्यात्सर्वानथैकहेत्वज्ञानापनोदिज्ञानदिवाकरोदयहेतुत्वं वस्तुमात्रयाथात्म्यप्रकाशनपटीयसस्तत्वमस्यादेर्वचस एवेति बह्वीभिरुपपतिभिः प्रदर्शितम् । अतस्तदर्याप्रतिपत्तौ यत्कारणं तदपनयनाय द्वितीयोऽध्याय आारभ्यते ।
श्रावितो वेति वाक्यार्थ नचेतत्वमसीत्यतः ।
त्वम्पदार्थानभिज्ञत्वादतस्ताप्रक्रियोच्यते ॥ १ ॥
श्रीगणपतिसरस्वतिसद्भरुभ्यो नमोनमः ॥ हरिः । ॐ । वृत्तसंकीर्तनपूर्वकं वतिष्यमाणस्याध्यायस्य तात्पर्यमाह प्रत्यक्षादीनामिति । प्रत्यक्षादिशब्देन श्रोत्रादीनामिह ग्रहणम् । तेषामनेवंविषयत्वादद्वैतात्माविषयत्वादित्यर्थः । कुतस्तदविषयत्वमित्यत आह तेषामिति । तेषां श्रोत्रादीनां स्वारम्भकशब्दादिवदाकाशादिभूतारब्धत्वात्तद्विषयत्वाञ्चात्माविषयत्वमित्यर्थः । श्रोत्रं स्वग्राह्यजातीयविशेषगुणवद्रव्यारब्धं बाह्येन्द्रियत्वाञ्चक्षुरादिवत् । त्वगिन्द्रियं वायवीयं नियमेन स्पर्शव्यञ्जकत्वाद्यजनादिजनितवायुवत् । तथा चक्षुस्तैजसं नियमेन रूपग्राहकत्वाद्दीपवत् । रसनमप्याप्यं नियमेन रसव्य क्षकत्वादास्योदकवत् । घ्राणं पार्थिवं नियमेन गन्धव्यञ्जकत्वात्कुङ्कमगन्धाभिव्यञ्जकधृतवदित्यनुमानात् । “यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शनां त्वगेकायनम् । एवं सर्वेषां रसानां जिद्वैकायनम् । एवं सर्वेषां गन्धानां नासिकैकायनम् । एवं सर्वेषां रूपाणां चक्षुरेकायनम् । एवं सर्वेषां शब्दानां श्रोत्रमेकायनमि'त्यागमाञ्च श्रोत्रादीनां भौतिकत्वं तद्विषयत्वं चेत्यवगन्तव्यम् । आत्मा पुनः शब्दादिहीनत्वात्तद्विषयित्वाच्च न तेषां विषय इत्याह आ-