पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
प्रथमोऽध्यायः ।

न च यथोक्तवस्तुवृतप्रतिपादनव्यतिरेकेण तत्त्वमस्यादिवाक्यं वाक्यार्थानतरं वक्तीति शक्यमध्यवसानुमित्याह ।
 तत्वमस्यादिवाक्यानां स्वतःसिद्धार्थबोधनात् ।
 अर्थान्तरं न सन्द्रष्टुं शक्यते त्रिदशैरपि ॥ ९ ॥
यस्मादवमम् ।
 “अतः सर्वाश्रमाणां तु वाङ्झनःकायकर्मभिः ।
 स्वनुष्ठितै'र्न मुक्तिः स्याज्ज्ञानादेव हि सा यतः ॥९९॥
तस्माच्च कारणादतदप्युपपन्नम् ।
 स्वमनोरथसंकप्तप्रज्ञाध्मातधियामतः ।
 श्रोत्रियेष्वेव वाचस्ताः शोभन्ते नात्मवेदिषु ॥ १०० ॥
इति श्रीमच्छङ्करभगवत्पूज्यपादशिष्यसुरेश्वराचार्यकृतौ नैष्कम्यैसिडौ प्रथमोऽध्यायः ॥ १ ॥


तद्वदेधिभवेत्यादिपदं घृद्धयादिविकारहीनात्मवस्तुप्रतिपादकवाक्येन प्रयोक्तव्यमित्यर्थः । एधीत्येतदस्तेर्धातोलॉट्मध्यमपुरुषेकवचनम् ॥ ९७ ॥

 ननु तत्त्वमस्यादिवाक्यानां स्वतःसिद्धार्थवाचकत्वमसिद्धं तेषां तद्हमस्मीत्युपासीतेत्युपासनाविधिपरत्वादित्यत आह न चेति । उपक्रमोपसंहारादि षड्विधलिङ्गाधिगतपरिनिष्टितवस्तुप्रतिपाद्नतात्पर्यविरोधादित्यर्थ ।। ९८ ॥

 यत्पुनः पूर्ववादिनोपसंहृतमतः सर्वाश्रमाणामिति तत्राह अत इति ॥ ९९ ॥

 तत्र चास्माभिरपि यदुक्तमिति हृष्टधियामित्यादि तदपि युक्तमेवोक्तमित्युपसंहरति तस्माञ्चेति ॥ १० ॥

 इति श्रीमज्ज्ञानोत्तममिश्राविरचितायां नैष्कम्यैसिद्धिचन्द्रिकायां