देहादिकार्यकरणसंघातव्यतिरेकाव्यतिरेकदर्शिनः प्रत्यक्षत एव विरुद्धं कार्यमुपलभ्यते ।
चतर्भिरूह्यते यत्तत्सर्वशक्तया शरीरकम् ।
तूलायते तदेवाहंधियाघातमचेतसाम् ॥ २० ॥
प्रसिङ्कत्वात्प्रकरणार्थोपसंहाररायाह ।
स्यूल युतया नभस्सा ।
निरस्यैवं नीलतामिव
देहं सूक्ष्मं निराकुर्यादतो युक्तिभिरात्मनः ॥ २१ ॥
कयं देहं सूक्ष्मं निराकुर्यादिति । उच्यते ।
अहंममत्वयत्नेच्छानामधर्माः कृशाववत्
कर्मत्वेनोपलभ्यत्वादपायित्वाच्च वस्त्रवत् ॥ २२ ॥
त्स्वप्रे च व्याघ्रादिशरीरेण व्यवहरतो जाग्रति दृष्ट देहेऽहमित्यभिमानाभावेनास्यानन्वयाञ्चानात्मत्वं वेदितव्यमित्यर्थः ॥ १९ ॥
वक्ष्यमाणविवेकफले श्रद्धाजननाय मिथ्याज्ञानविवेकज्ञानयोरनुभवसिद्धः फलभेद् इति दर्शयति देहादीति । चतुभिरिति । स्वदेहः परदेहो वा वाहने स्थापयित्वा चतुभिरूह्यो भवति स एवाविदुषामहम्बुद्धिपरिगृहीतस्तूलायते तूलवद्ाचरतीति प्रत्यक्षमेव विरुद्धं कार्यमित्यर्थः । यद्धा । स्वभावतः सुषुप्तादावशक्योद्धाहो जागरितेऽहन्धीमात्रेण सुखोद्वाहितामापद्यमानः शिबिकादिवत्स्वोद्धाहकमहंकत्तरमवगमयतीति दर्शयति देहाद्भीत्यादिना । यद्धा। एकमेव शरीरमहम्बुद्धिरहितमतिगौरवान्महता शेन नीयते तदेवाहम्बुद्धिगृहीतमत्यन्तलाघवात्तूलवद्ाचघरतीत्येवं विरुद्धकार्यदर्शनाद्नात्मैवायं देह इत्याह देहादीत्यादिना ॥२०॥
लोकायतिकव्यतिरिक्तसर्ववादिनामात्मनः स्थूलदेहव्यतिरेके विवादाभावात्सर्वजनप्रसिद्धत्वाञ्च न तत्प्रतिपादनायातीवाग्रहः क्रियत इत्याह प्रसिद्धत्वादिति ॥ २१ ॥ कथमिति । अहंममत्वेति । अहङ्कारममकारबुद्धिसुखदुःखेच्छाद्वेषप्र-