गम्भीरन्यायसन्दृब्धं सर्ववेदान्तार्यमीमांसनं श्रीमच्छारीरकं नासूत्रयिष्यात् । असूत्रयञ्च । तस्माजैमिनेरेवायमभिप्रायो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यमेवमैकात्म्यवाक्यानामप्यनधिगतवस्तपरिच्छेदसाम्यादिति । अत इदमभिधीयते ।
अधिचोदनं य आाम्नायस्तस्यैव स्याक्रियार्थेत
तत्त्वमस्यादिवाक्यानां ब्रत कर्मार्थता कथयम् ॥ ९१ ॥
अपि च । ऐकात्म्यपक्ष इवादृष्टार्यकर्मसु भवत्पक्षेऽपि प्रवृतिदुर्लक्ष्या । यतः ।
स्वर्ग यियासुर्जुहुयादग्निहोत्रं यथाविधि ।
देहाद्युत्थापितस्यैवं कर्तृत्वं जैमिनेः कथमम् ॥ ९२ ॥
। प्रायो न भवतीत्यत्र किं प्रमाणमित्यत आाह यदि ह्ययमिति । सिद्धस्वरूपस्याकर्तुरभोत्कुः प्रत्यगात्मनः प्रतिपादकवेदान्तवाक्यविचाराय पृथकशास्त्रारम्भान्यथानुपपत्तिस्तत्र प्रमाणमित्यर्थः । तह्यम्नायस्य क्रियार्थत्वादित्यस्य सूत्रस्य कोऽर्थ इत्यत आह अधिचोदनमिति । अधिचोदनं चोदना नाम विधिश्चोदनामधिकृत्य वर्तत इत्यधिचोदनम् । चोदनायां विधिप्रकरणे पठितानां सोऽरोदीदित्यादिसिद्धार्थवादवाक्यानामानर्थक्यमनेन सूत्रेणाशङ्कय विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युरिति विधिशेषत्वेन सार्थकत्वं तेषां सिद्धान्तितं न तु तद्विपरीतानां तत्वमस्यादिवाक्यानामित्यर्थः ॥ ९१ ॥
यत्पुनरुक्तं “कुर्वन्नेवेह कर्माणी'त्ययं मन्त्रः कृत्स्रमायुः कर्मण्येव विनियुङ्ग इति तदप्ययुक्तम् । आत्मनः परमार्थतः कर्तृत्वभोत्कृत्वाद्यभावातद्विदः कर्माधिकारासम्भवादविद्वद्विषय एवायं मन्त्र इति प्रदर्शयितुमाह अपि चेति । यथास्मत्पक्षे ज्ञाने विध्यभावादप्रवृत्तिस्तथा भवत्पक्षे विध्यभ्युपगमेऽप्यग्निहोत्रादिकर्मस्वप्रवृत्तिरित्यर्थः । कुत इत्यत आह