पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


न च प्रत्याख्याताशेषशरीरादिकर्मसाधनस्वभावस्यात्ममात्रस्य कर्मस्वधिकारः । यस्मात् ।
 सर्वप्रमाणासम्भाव्यो ह्यहंवृत्त्यैकसाधनः ।
 युष्मदर्यमनादिसुजैमिनिः प्रेयैते कथम् ॥ ९३ ॥
प्रवृतिकारणाभावाच्च । यस्मात् ।
 सुखदुःखादिभिर्योग आत्मनो नाहमेक्ष्यते ।
 परालकाप्रत्यगात्मत्वाजैमिनिः प्रेर्यते कथयम् ॥ ९४ ॥


यत इति । देहान्तरोपभोग्यस्वर्गादिसाधनाग्हिोत्रादिविध्यन्यथानुपपत्त्या प्रमितस्य देहादिव्यतिरिक्तस्य निरवयवस्यात्मनो न परिस्पन्दपरिणामलक्षणक्रियाप्रवेशात्मकं कर्तृत्वमुपपद्यते । न च प्रयत्नाश्रयत्वेनापि कर्तृत्वं प्रयत्नस्यान्तःकरणाधमत्वादानत्यस्य नित्यात्मगुणत्वानुपपतेश्चेत्यर्थः । स्वर्ग यियासुरग्निहोत्रं यथाविधि जुहुयादित्येवं देहाद्युत्थापितस्येत्यन्वयः । इतिशब्दश्चैवंशब्दसामथ्यलुभ्यते जैमिनेः पक्ष इत्यर्थः ॥ ९२ ॥

 एवं कन्वयं निराकृत्याधिकारान्वयं निराचष्ट न च प्रत्याख्यातेति । प्रत्याख्यातमशेषं शरीररादिलक्षणं कर्मसाधनं येन तत्स्वभावस्यात एवात्ममात्रस्य न कर्मस्वधिकार इत्यर्थः । सर्वप्रमाणागोचरश्रेत्कथं व्यवहूियत इत्यत आह अहंवृत्तीति । युष्मदर्थमहङ्कारादिलक्षणमनादित्सुः परमार्थतस्तत्संसर्गरहितो जैमिनिशब्दवाच्यशरीरोपलक्षितः प्रत्यगात्मा प्रेर्यते प्रवत्र्यंते विधिना कथं । न कथंचिदित्यर्थः । आत्मा प्रेर्यते कथमित्यात्ममात्रस्य प्रवत्र्यत्वासम्भवे वक्तव्येऽपि जैमिन्यात्मग्रहणं तदुपालम्भार्थम् ॥ ९३ ॥

 इदानीं भोक्रन्वयं निराचष्ट प्रवृत्तिकारणेति । प्रवृत्तिकारणं प्रयोजनम् । तदभावाच्च न प्रवृत्तिरित्यर्थः । कुतः प्रयोजनाभाव इत्यत आह यस्मादिति । आत्मनः सुखदुःखादिभियगो नास्तीति यस्मात्तस्मादित्य र्थः । ननु कथं सुखदुःखादिभिरयोगः सुख्यहं दुःख्यहमिति सुखदुःखा-