सामग्री पर जाएँ

पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


यदप्युक्त“मनतरेण विधिमि'ति तदप्यबुद्धिपूर्वकमिव नः
प्रतिभाति । यस्मात्कालानतरफलदायिषु कर्मस्वेतद्धटते ।
आत्मलाभकाल एव फलदायिनि त्वात्मज्ञाने नैतत्समजुजसमित्याह ।
 ज्ञानात्फले ह्यवाझेऽस्मिन्प्रत्यक्षे भवघातिनि ।
 उपकाराय तनेति न न्यायं भाति नो वचः ॥ ९० ॥
यदपि जैमिनीयं वचनमुद्धाठयसि तदपि तद्विवक्षापरिज्ञानादेवोद्भाव्यते । किंकारणम् । यतो न जैमिनेरयमभिप्राय आम्नायः सर्व एव क्रियार्थ इति । यदि ह्ययमभिप्रायोऽभविष्य“दयातो ब्रह्मजिज्ञासा जन्माद्यस्य
यत”इत्येवमादिब्रह्मवस्तुस्वरूपमात्रयाथात्म्यप्रकाशनपरं


कगम्यं यद्धस्तु धर्माधर्मादिलक्षणं । नान्यस्मात्तत्र विश्वसेत् । वाक्यादन्यतो न विश्वसेत् । ना पुरुषः । अप्रमेये स्वतःसिद्धेऽविश्वासः विश्वासरहितः कथमात्मनि स्यादित्यक्षरयोजना । यद्वा । अप्रमेये स्त्रतःसिद्ध आत्मनि कथं न विश्वास इत्यन्वयः ॥ ८९ ॥

 दृष्टफलत्वादात्मज्ञानस्य विध्यभावे फलाभावाभिधानमनुभवविरुद्वमित्यभिप्रेत्याह तद्प्यबुद्धीति । विधिप्रयुक्तफलेषु हि विधिमन्तरेण प्रवृत्तौ फलाभावो न तु स्वरूपप्रयुक्तफलेषु । आत्मज्ञानं तु भोजनादिवत्स्वरूपप्रयुक्तं फलम् । यथैव हि भोजनस्य स्वरूपप्रयुक्तमेव तृप्तिलक्षणं फलमेवमात्मज्ञानस्यापि संसारोपरमलक्षणं फलं स्वरूपप्रयुक्तमेव । तस्माद्विधिमन्तरेणेत्यसमञ्जसमित्यर्थः । ज्ञानात्फल इति । सहेतुकसंसारोपरमलक्षणे कैवल्ये फले ज्ञानात्प्रत्यक्षमनुभूयमाने विधिविकलमात्मज्ञानं फलाय न भवतीतिवचनं प्रत्यक्षपराहतत्वादत्यन्तमुपेक्षणीयमित्यर्थः ॥ ९०

 यत्पुनराम्रायस्य क्रियार्थत्वादित्युक्तं तदनूद्य निरस्यति यदपि जैमिनीयमित्यादिना । आम्नायः सर्व एव क्रियामागी भवतीति जैमिनेरभि-