व्यवहितफलदानाय स्वात्मानं बिभर्ति साध्यमानमात्रक्रियात्मज्ञानवत्स्वात्मप्रतिलम्भकाल एव स्वर्गादिफलेन कर्तारं सम्बधाति । आत्मज्ञानं
पनः परुषार्थसिडी नोत्पद्यमानस्वरूपव्यतिरेकेणान्यदूपान्तर साधनान्तर वापक्षत । कुत एतद्यतः ।
बलवद्धि प्रमाणोत्थं सम्यग्ज्ञानं न बाध्यते ।
आाकाङ्कते न चाप्यन्यद्दाधनं प्रति साधनम् ॥ ३६ ॥
स्तीत्यर्थः । ननु विभ्रमेऽप्यधिष्ठानस्य सामान्येन स्फुरणात्तदालम्बनत्वमविद्यायां विद्यते तस्मादेकविषयत्वान्न विषयतो विरोध इत्याशङ्कयाह
मात्रेति । आश्रयादालम्बनत्वाद्विषयीकरणादिति यावत् । पूर्व विषयतो वैलक्षण्यमुक्तमिदानीं विद्या स्वजन्मन्येवाविद्याद्यपेक्षते न तु फले कर्म पुनः स्वजन्मनि फले चाविद्यामपेक्षत इति वैलक्षण्यान्तरमाह स्वात्मोत्पत्ताविति । किमिति फले कर्माविद्यामपेक्षत इत्यत आह न हि क्रियेति । कालान्तरभाविफलदानाय तिष्ठन्ती क्रिया कारकाद्यपेक्षयैव तिष्ठतीत्यर्थः । ननु किमिति कारकमाश्रित्यैव तिष्ठति न स्वातन्त्र्येणैव तिष्ठतीत्यत आह साध्यमानेति । परतन्त्रस्वरूपत्वात्क्रियाया इत्यर्थः । ननु तर्हि स्वोत्पत्तिकाल एव कर्मापि फलजनकमस्त्वित्याशइयानुभवविरोधात्रैवमित्याह न च क्रियेति । ननु तह्यत्मज्ञानमपि कमपेक्षयाभ्यासद्वारेण वा कैवल्यं चिरेण साधयेदित्यत आह आत्मज्ञानमिति । रूपान्तरशब्देनाभ्यास उच्यते साधनान्तरशब्देन च कर्म । नन्वात्मशानस्याप्यनपेक्षत्वमयुक्तमनादिकालप्रवृत्तद्वैतदर्शनतत्संस्काराभ्यां बाधपरिहारायाभ्यासादिसापेक्षत्वादित्याक्षिप्योत्तरश्लोकेन समाधत्ते कुत एतदित्यादिना । प्रमाणोत्थत्वाद्वलवत्सम्यग्ज्ञानमप्रमाणोत्थद्वैतदर्शनतत्संस्काराभ्यां न बाध्यत इत्यर्थः । तर्हि द्वैतदर्शनतत्संस्कारयोर्वाधनार्थ सम्यग्ज्ञानमभ्यासादिकमपेक्षतामित्यत आह आकाङ्कत इति ॥ ३६