पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
प्रथमोऽध्यायः ।

निरतिशयसुखावाशिनिःशेषदुःखनिवृती भवतो न तु
कर्मणेति । उच्यते ।
 मर्माज्ञानसमुत्थावान्त्रालं मोहापनुतये ।
 सम्यग्ज्ञानं विरोध्यस्य तामिस्रस्यांशुमानिव ॥ ३५ ॥
नन्वात्मज्ञानमप्यविद्योपादानं नहि शास्त्रशिष्याचार्याद्यनुपादायात्मज्ञानं लभत इति । नैष दोषः । यत आत्मज्ञानं हि स्वतःसिद्धपरमार्यात्मवस्तुस्वरूपमात्राश्रयादेवाविद्यातदुत्पन्नकारकग्रामप्रध्वंसि स्वात्मोत्पतावेव शाखाद्यपेक्षते नोत्पन्नमविद्यानिवृत्तौ । कर्म पुनः स्वात्मोत्पतावुत्पन्नं च । नहि क्रिया कारकनिस्पृहा कल्पकोटि-


क्तलक्षणस्य मोक्षस्यात्मस्वभावत्वेऽप्यशानपिहितत्वात्संसारदशायामप्रतिभासो न तु तस्य तदानीमभावात् । पूर्वोक्तप्रत्यक्षादिना प्रमाणेन तत्स्वभावनिर्धारणात्तस्य चाझानस्य ज्ञानादेव निवृत्तिस्तथा लोके दृष्टत्वात् । निकटोपसर्पणादेस्तु न साक्षादशाननिवर्तकत्वं सम्यग्ज्ञानोत्पत्तिमात्रकारणत्वेनान्यथासिद्धत्वात् । तत्रस्थस्वाधिष्टानावलोकने च कदाचिद्भमनिवृत्तेनिकटोपस्पृप्तस्याधिष्ठानानवलोकने भ्रमानिवृत्तेश्धेति भावः ॥ ३५ ॥

 अझानोत्थत्वाचेत्कर्मणामविद्यानिवृत्तावहेतुत्वं तर्हि विद्याया अपि तदुत्थत्वाविशेषात्तन्निवर्तकत्वं न स्यादिति शङ्कते नन्विति । कुतस्तस्याविद्योपादानत्वमिलयत आह नहीति । अविद्याकार्यत्वाविशेषेऽपि परमार्थवस्त्वालम्बनत्वेन विपयतो विरोधादविद्यानिवर्तकत्वं न विरुध्यत इति परिहरति नैष दोष इति । तत्राजडसत्यात्मविषयतया जडानृतानात्मविपयाविद्याविरोधितामाह स्वतःसिद्धेति । आत्मनां परस्परभेदेन ब्रह्मणो भेदेन च विद्याविषयत्वाद्वैतविरोधाभावमाशङ्कयाह वस्तुस्वरूपेति । द्वैतविपयत्वेनाद्वैतत्रिपयत्वेन चाविद्याविद्ययोर्विरोधोऽ-