पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमाऽध्यायः ।। २७) स्वपक्षस्य हेत्ववष्टम्भेन समर्थितावान्निराशङ्कमुपसंहि तस्माद्दःखोदधेहेतोरज्ञानस्यापनुतये । सम्यग्ज्ञानं सुपयोझै किया चेन्नोक्तहेतुतः ॥ ३७ ॥ ननु बलवदपि सम्यग्ज्ञानमपि सदप्रमाणोत्येनासम्य ज्ञानन बाध्यमानमुपलभामह यात उत्पन्नपरमार्थ बोधस्यापि कर्तवभोक्तावरागद्वेषाद्यनवबोधोत्यप्रत्यया आविर्भवन्ति । न ह्यबाधिते सम्यग्ज्ञाने तद्विरुद्धानां प्र त्ययानां सम्भवोऽस्ति । नैतदेवम् । कुतः । बाधितावादविद्याया विद्यां सा नैव बाधते । तद्वासना निमित्तावं यान्ति विद्यास्मृतेर्धवम् ॥ ३८ ॥ एवं ज्ञानमेव कैवल्ये साधनं न कर्मेत्युपपादितमर्थमुपसंहरति स्वप क्षस्येति । दुःखहेतुभूताज्ञानापनुत्तये सम्यग्ज्ञानमेव पुष्कलकारणमि त्यर्थः । उक्तहेतुत इति । अज्ञानसमुत्थत्वोत्पाद्यफलत्वादिहेतुभ्य इ त्यर्थः ।। ३७ ननु बलवद्धि प्रमाणोत्थमित्यनेन श्लोकेनानन्यापेक्षचैतन्यप्रकाशा त्मस्वरूपावगाहित्वेन वस्तुवलप्रवृत्तत्वाद्पौरुपेयवेदान्तवाक्यजन्यशा नस्य सकलसंसारकारणभूताज्ञाननिवर्तकत्वमुपपद्यते । तत एवाना दिकालप्रवृत्तदृढतरकर्तृत्वादिमिथ्यावभासनिवर्तकत्वमुपपद्यते न च तन्निवृत्तौ स्वव्यतिरिक्तमभ्यासादिसाधनान्तरमपेक्षत इत्युक्तम् । तत्र बलवत्वात्सम्यग्ज्ञानस्याबाध्यत्वमित्यत्रानुभवविरोधं शङ्कते ननु बल वद्पीति । ननु कर्तृत्वादिप्रत्ययानुवृत्तिमात्रेण कथं वाधोऽवगम्यत इत्यत आाह नहीति । बाधितस्य बाधकत्वानुपपत्तेमैवामिति परिहरति नैतदेवमिति । प्रमाणज्ञानस्य स्वसामग्रीत एवोत्पन्नत्वात्तस्य चाशा नबाधकत्वादशानवाश्रयैव विपर्ययज्ञानस्यापि तदात्मकत्वेन बाधित