तत्रैतेषु चतुषु विषयेषु प्राप्तये परिहाराय च विभज्य
न्यायः प्रदश्यैते ।
प्राझव्यपरिहार्येषु ज्ञात्वोपायान् श्रुतेः पृथक् ।
कृत्वाथ प्रामुयात्प्राप्यं तथानिष्टं जहात्यपि ॥ ३३ ॥
अयावशिष्टयोः. स्वभावतः ।
परिहृतावाझयोबधाङ्कानप्राप्ती न कर्मणा ।
मोहमात्रान्तरायचाक्रियया ते न सिध्यतः ॥ ३४ ॥
कस्मात्पुनरात्मवस्तुयाथात्म्यावबोधमात्रादेवाभिलषित-
भ्रान्त्यारोपितं राक्षसं मोहावृतान्तःकरणो भयात्परिहर्तुमिच्छति । यचान्यद्धस्तुतोऽपरिहृतं चीरव्याघ्रादि अलब्धं च वित्तादि तत्परिहर्तु प्रातुं चेच्छतीति द्वयमपि द्विविधं दृश्यत इत्यर्थः ॥ ३१ ॥ ३२ ॥
भवत्वेवं तथापि कस्य कथं प्राप्तिः परिहारो वेत्याकाङ्कायामुत्तरश्लोकाभ्यां तत्रोपायः प्रद्श्र्यत इत्याह तत्रैतेष्विति । तत्र वस्तुतोऽप्राते स्वर्गादावपरिहृते च नरकादावागमतस्तदुपायान्विभागेन परिज्ञाय तद्नन्तरमनुष्टायानुष्ठानजनितादृष्टवशात्कालान्तरे तत्फलं लभते ॥ ३३ ॥
स्वतस्तु परिहृतावाप्तयोरज्ञानत एव तथा रूपेणाभिमतयोबधादज्ञाननिवृत्त्या प्राक्षिपरिहारौ न तु कर्मणा मोहमात्रस्यैव तत्र प्रतिबन्धकत्वान्न कर्मानुष्ठानसाध्यत्वमित्यर्थः ॥ ३४ ॥ नमात्रादेव प्राप्तिपरिहारौ निरतिशयानन्दलक्षणस्य निरस्ताशेषानर्थलक्षणस्य च मोक्षस्य कथं शानादेव सिद्धिस्तथाभूतस्य मोक्षस्य संसारदशायामनुपलम्भात्साध्यत्वप्रतीतेरिति शङ्कायामुत्तरश्लोकेनोत्तरमुच्यत इत्याह कस्मादिति । यद्वा । शुक्तिकादिनिकटोपसर्पणादिक्रियया रजतादिविभ्रमाणां तत्कारणाज्ञाननिवृत्या निवृत्तिदर्शनादात्माज्ञाननिवृत्तिरपि कर्मणा किं न स्यादित्याशङ्कय परिहरति कस्मादित्यादिना । उ-