देव हितं मे स्यादहितं मे माभूदिति मिथ्याज्ञानं तूषरशुक्तिकानवबोधोत्थमिथ्याज्ञानवाप्रवृत्तिनिमित्तमिति
निर्धारितम् । शास्त्रं च न पदार्थशतयाधानकृदित्येतस्यै
न परीप्सां जिहासां वा पुंसः शास्त्रं करोति हि ।
निजे एव तु ते यस्मात्पश्चादावपि दर्शनात् ॥ ३० ॥
उतं तावदनवबुद्धवस्तुयाथात्म्य एव विधिप्रतिषेधशाखेष्वधिक्रियत इति । अथाधुना विषयस्वभावानुरोधेन
प्रवृत्त्यसम्भव वतुकाम आह ।
लिप्सतेऽज्ञानतोऽलब्धं कण्ठे चामीकरं यथा ।
वर्जितं च खतो भ्रान्त्या छायायामात्मनो यथा ॥३१॥
भयान्मोहावनद्धात्मा रक्षाः परिजिहीर्षति ।
यच्चापरिहृतं वस्तु तथालब्धं च लिप्सते ॥ ३२ ॥
स्वाभाव्येति । यथा भूतात्मस्वरूपानवबोधाद्धितं मे स्यादहितं माभूःदिति मिथ्याज्ञानं भवति तत्प्रवृत्तिनिमित्तमित्यर्थः । उत्तरार्धार्थमनुवदति शास्त्रं चेति । पदार्थानां शक्तिमात्मनः कर्तृत्वभोत्कृत्वादिशक्ति स्वर्गादेः साध्यत्वशक्ति यागादेः साधनत्वशक्ति नाधत्ते किंतु प्रकाशयत्येवेत्युक्तमित्यर्थः । निजे एव त्विति । शास्त्राधेयविज्ञानं चिनैव पश्वादीनामिव तयोः परीप्साजिहासयोः संभवादित्यर्थः ॥ ३० ॥
पूर्व कर्मप्रवृत्तिहेतुनिरूपणेन कैवल्यस्य कर्मसाध्यत्वं निराकृतमधुना विद्याविषयात्मस्वरूपपर्यालोचनयापि कर्मसु प्रवृत्त्यसम्भवं दर्शयितुमाह उक्तमित्यादिना । तदर्थं प्राप्यस्य परिहार्यस्य च प्रत्येकं द्वैविध्यं दर्शयति लिप्सत इति । स्वतःप्राप्तमेव कण्ठगतं सुवर्णभूषणमज्ञानतोऽप्राप्तं प्रामुमिच्छति । यथाविद्यमानत्वादेव स्वत एव वर्जितं स्वकीयच्छायायां