पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


एवं तावाग्रत्यक्षानुमानागमप्रमाणावष्टम्भादात्मनो निरतिशयसुखहिताव्यतिरेकसिद्धेरहितस्य च षष्ठगोचरवत्स्वत एवानभिसम्बन्धादेवं स्वाभाव्यात्मानवबोधमात्रा-


प्रदश्यधुना निर्णयमाह हितं संप्रेप्सतामिति । वैषयिकसुखाभावेऽपि सुषुप्तौ सुखमहमस्वाप्सामित्यात्मनः सुखरूपतायाः स्वानुभवसिद्धत्वात्परमप्रेमास्पदत्वेन सुखरूपतानुमाना“देषोऽस्य परम आनन्द्” “आत्मैवानन्द' इत्यागमतश्च तस्य नित्यनिरतिशयानन्दस्वभावतासिद्धेरजरममरमभयमशोकमित्यादिश्रुतिभ्यः कूटस्थत्वासङ्गत्वसाक्षित्वादिभ्यश्च स्वभावतः परिहृताशेषानर्थत्वसिद्धेश्चैवंभूतात्मयाथात्म्यानवबोधादेव हितप्रेप्सा दुःखजिहासा च भवति । न पुनः शास्रमेव यूयं कत्र्तारो भोक्तारश्च युष्माकं प्राप्यं परिहार्य चास्ति तस्माद्युष्माभिर्हितं प्रेप्सितव्यमहितं च जिहासितव्यं यूयं वर्णाश्रमवयोवस्थाविशेषवन्त इति कर्तृत्वादिकमुत्पाद्यति बोधयति वा किंतु स्वयमेवाध्यारोपितकर्तृत्वभोकृत्ववर्णाश्रमवयोवस्थाविशेषवतां पुंसां स्वत एव प्रेप्सितस्य हितस्य िजहासितस्य चाहितस्य प्राप्तये परिहाराय च साधनं जिज्ञासमानानामिदं साध्यमिदं च साधनमिति साध्यसाधनसम्बन्धमात्रं यथावस्थितमर्कवत्प्रकाशयति शास्त्रं न पुनः प्रवृत्तिनिवृत्तिजननेऽपि शास्त्रस्य व्यापारस्तत्र तूदासीनमित्यर्थः ॥ २९ ॥

 एवं संक्षेपत इष्टानिष्टसाधनज्ञानाद्रागद्वेषौ भवतस्ततश्ध पुरुषस्य प्रवृत्तिनिवृत्ती भवत इति पूर्वश्लोकोक्तमर्थ सोपस्करमनूद्य वर्त्तितष्यमाणग्रन्थस्य तात्पर्यमाह एवं तावदित्यादिना । यद्यपि न पूर्वश्लोके प्रत्यक्षानुमानागमाः कण्ठोक्तास्तथापि प्रेप्साजिहासयोमहहेतुत्वमुपद्र्शयतात्मनः सुखस्वभावत्वस्योपदशितत्वात्तत्र च प्रमाणान्वेषणे च सौषुप्तिकानुभवलक्षणं प्रत्यक्षं परप्रेमास्पदत्वानुमान “मेषोऽस्य परमानन्द' इत्यादिश्रुतिश्च परिगृह्यते तस्मान्नानुक्तानुवाद् इति द्रष्टव्यम्। षष्टगोचरवदित्यभावप्रमाणगोचरवदित्यर्थः । कुतस्तर्हि प्रवृत्तिरित्यत आह एवं