पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२०८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२०६ नैष्कम्यैसिद्धिश्चन्द्रिकासहिता सुभाषितं चार्वपि नामहात्मनां दिवाकरो नक्तदृशामिवामलः । प्रभाति भायेव विशुद्धचेतसां निधिर्यथापास्ततृषां महाधनः ॥ ७५ ॥ विष्णोः पादानुगांयां िनखिलभवनुदंशङ्करोऽवापयोगात् सर्वज्ञ ब्रह्मसंस्यं मुनिगणसहितं सम्यगभ्यच्र्य भतया विद्यां गङ्गामिवाहं प्रवरगुणनिधेः प्राप्य वेदानदीप्तां कारुण्यातामवोचं जनिमृतिनिवहध्वस्तये दुःखितेभ्यः ॥ ७६ ॥ ये पुनरनुनीयमाना अनुनयादेवानुनेतुमशक्ति मन्यन्ते दुविदग्धास्ता न्प्रति साविष्कारमात्मनो वैदग्ध्यं दर्शयति सुभाषितमिति । निस्पृहाणां हि निधयः प्रकाशन्ते तदुक्तं भगवता पतञ्जलिना “रलोपस्थानमि'ति । अस्तेयप्रतिष्ठायामात्मस्पृहायां रलोपस्थानं सर्वदिकालस्योपतिष्ठन्ते र लानीत्यर्थः ॥ ७५ ॥ एवं विशिष्टगुरुसंप्रदायप्राप्तस्य प्रकरणस्य परानुग्रह एव प्रयोजनं न तु दृष्टमदृष्टं वा विद्यया कृतार्थत्वादिति दर्शयति विष्णोरिति । विष्णो व्यापिनो जगत्कारणस्य पदमधिष्ठानं सञ्चिदानन्दैकरसमनुगच्छतीति विष्णोः पदानुगा विद्या । गङ्गापि विष्णोः पुरुषोत्तमस्य चरणमनुसृत्य गच्छतीति “वामपादाङ्गुष्टनखस्रोतोविनिर्गतामि'ति स्मरणात् । पुनरपि विद्यागङ्गयोः समानं विशेषणमाह निखिलभवनुदमिति । यामेवंविधां विद्यां गङ्गां च भगवत्पादाचार्यः परमेश्वरश्च योगसामथ्र्यादवाप तमा चार्य सर्वशं ब्रह्मसंस्थं मुनिगणैः सहितं भक्तया सम्यगभ्यच्र्य तस्मात्प्रव रगुणनिधेराचार्यात्तां वेदान्तदीप्तां परमेश्वरं समभ्यच्र्य तस्माद्भगीरथो वेदान्तदीप्तां सितासिते “इमं मे गङ्गे' इत्यादिवेदान्तप्रतिपाद्यांगङ्गामिव साकल्येनाहं प्राप्यार्थिभ्यः सकारणसंसारनिवृत्तयेऽवोचमित्यर्थः ॥७६॥