पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२०९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


वेदान्तोदरवर्ति भास्वदमलं ध्वान्तछिदस्मडियो दिव्यं ज्ञानमतीन्द्रियेऽपि विषये व्याहन्यते न कचित् । यो नो न्यायशलाकयैव निखिलं संसारबीजं तमः प्रोत्सार्याविरकार्षीडुरुगुरुः पूज्याय तस्मै नमः ॥ ७७ ॥ सम्बन्धोक्तिरियं साध्वी प्रतिश्लोकमुदाहृता । नैष्कम्यैसिडेज्ञवेमां व्याख्यातासौ भवेड़वम् ॥ ७ ॥ २००७ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छङ्करपूज्य पादशिष्यश्रीसुरेश्वराचार्यविरचितायां नैष्कम्यै सिद्दौ सम्बन्धोक्तौ चतुर्थोऽध्यायः इति नैनष्कस्यसिद्विप्रकरणं समाप्तम् ॥ गुरुभतेर्विद्यां प्रत्यन्तरङ्गसाधनत्वं दर्शयितुं प्रकरणारम्भ इव प्रक रणपरिसमाप्तावपि गुरुनमस्कारं करोति वेदान्तेति । वेदान्तोद्रवत्ति वेदान्तप्रमाणजन्यं भास्वच्छुद्धसत्त्वात्मकममलं रागादिदोषरहितं । ध्वान्तछिदस्मद्धियोऽस्मदन्तःकरणतमोनिवर्तवकं । दिव्यं स्वयंप्रकाशा भिव्यञ्जकं । पुनरपि तदेव ज्ञानं विशिनष्टि अतीन्द्रियेऽपीति । यस्य ज्ञानस्यातीन्द्रियवस्तुविषयत्वान्न प्रत्यक्षादिविरुद्धार्थविषयत्वमित्यर्थः । एवंविध शानं यो गुरूणामपि गुरुनाऽस्माकमाचिरकार्षीदिति सम्बन्धः । किं कुर्वन्नाविरकाषीत्तत्राह निखिलमिति । सकलसंसारबीजं तमो न्या यशलाकया प्रोत्सारयन्य एवमाविरकार्षीत्तस्मै नम इति सम्बन्धः । निवृच्छार्दूलविक्रीडितमेतत् । “न्यूनाधिकेनैकेन निचूद्भरिजावि"त्यु क्तत्वात् ॥ ७७ ॥ नैष्कम्र्यसिद्धेव्याख्यानक्षमतात्पर्यपरिज्ञाने किं कारणमित्याशङ्कायां सम्बन्धोक्तिरेवेत्याह सम्बन्धोक्तिरिति ॥ ७८ ॥