पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०५
चतुर्थोऽध्यायः ।

न दातव्यश्रायं ग्रन्थः । नाविरक्ताय संसारान्नानिरस्तषणाय च । न चायमवते देयं वेदान्तार्थप्रवेशनम् ॥ ७१ ॥ ज्ञात्वा यथोदितं सम्यग्ज्ञातव्यं नावशिष्यते । न चानिरस्त कर्मेदं जानीयादञ्जसा ततः ॥ ७२ ॥ निरस्तसर्वकमणः प्रत्यक्प्रवणबड़यः । निष्कामा यतयः शान्ता जाननीदं यथोदितमम् ॥७३॥ श्रीमच्छङ्करपादपद्मयुगलं संसेव्य लब्ध्वोचिवान् ज्ञानं पारमहंस्यमेतदमलं स्वानान्धकारापनुत् । मा भूदत्र विरोधिनी मतिरतः सद्भिः परीक्ष्यं बुधैः सर्वत्रैव विशुद्धये मतमिदं सन्तः परं कारणम् ॥ ७४ ॥


एवं शिष्यस्य नियममभिधायाचार्यस्य नियममाह न दातव्य इति । यमा अहिंसादयस्ते यमादयो यस्य विद्यन्ते स यमवान् । न यमवानयमवान् । तस्मा अयमवते कुतो न देयमित्यत आाह वेदान्तेति । वेदान्तानामर्थे प्रवेशोऽधिगमोऽनेनेतीदं प्रकरणं वेदान्तार्थप्रवेशनं तेन य एवं वेदान्तश्रवणादिष्वधिकृतो मुमुक्षुः स एवात्राधिकारीति नान्यस्तस्मात्कुतूहलाडहुश्रुतत्वादिबुद्धच्या वा प्रवर्तमानायेदं न देयमित्यर्थः ॥ ७१ ॥ ननु किमेतत्प्रकरणपरिज्ञानाद्भवति येनात्रानधिकारिणां प्रवेशो न सिद्धयेदित्यत आह ज्ञात्वेति । तेन कुतूहलादिवशात्प्रवृत्तो न फलपर्यन्तं झानमधिगच्छतीलयर्थः । न चानिरस्तेति ॥ ७२ ॥ के तर्हि प्रकरणार्थ सम्यक्प्रतिपद्यन्त इत्यत आह निरस्तेति ॥ ७३ ॥ इदानीमस्मत्प्रकरणस्य विशिष्टगुरुसंप्रदायपूर्वकत्वादत्र दोषदृष्टिर्माभूत्किन्तु यलात्सद्भिः परीक्षणीयमिदं प्रकरणं यतः सन्त एव गुणदोषावधारणे परं कारणं तस्मात्परीक्षणीयमेवेति विद्वजनेष्वात्मनोऽनौद्धल्यं दर्शयति श्रीमदिति । ऊचिवानुक्तवानित्यर्थः ॥ ७४ ॥