सामग्री पर जाएँ

पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

अमानित्वादिनिष्ठो यो यश्चाद्वेष्ट्रादिसाधनः । ज्ञानमुत्पद्यते तस्य न बहिर्मुखचेतसः ॥ ६ ॥ उत्पन्न आत्मविज्ञाने किमविद्याकार्यत्वात्प्रवृतिवनिवृत्यामकामानित्वादयो निवर्तनत उत नेति । नेति ब्रमः । किं कारणम् । निवृतिशास्त्राविरुङ्कस्वाभाव्यात्परमात्मनो न तु नियोगवशात् । कथं तर्हि । शूणु । उत्पन्नात्मप्रबोधस्य विद्वेष्टत्वादयो गुणाः । अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥ ६९ ॥ यत एतदवमतः । इमं ग्रन्थम्पादित्सरमानित्वादिसाधनः । यत्नतः स्यान् दुववृत्तः प्रत्यग्धमानुगा ह्ययम् ॥ ७० ॥


संकलय्य दर्शयति सकलेति । “अमानित्वमदम्भित्वमद्वेष्टा सर्वभूतानामि'त्यादिभगवद्भीतोक्तगुणवत एव सम्यग्ज्ञानोत्पत्तिर्न विषयाभिमुखचेतस इत्यर्थः ॥ ६८ ॥ ननु साधकस्यामानित्वादिकं साधनं चेत्सिद्धस्य तर्हि साध्याभावे महाबाहो साधनैः किं प्रयोजनमिति न्यायेन तेषामविद्याकायाणां विद्याविरोधाचासम्भवः सम्भवे वा निवृत्तिशास्त्रनियोज्यत्वं विदुषः प्रसज्येतेत्याशङ्कय विधितस्तेषां नियोज्यत्वाभावेऽपि विद्याविषयपरमार्थात्मस्वभावाविरोधादयत्नसाध्या अमानित्वाद्यो विदुषो लक्षणत्वेनानुवर्त्तन्त इति परिहरति उत्पन्न इत्यादिना ॥ ६९ ॥ यस्मादेवं साधकस्य साधनत्वेन सिद्धस्य च लक्षणत्वेन सर्वथाप्यङ्गीकार्यास्तस्मात्परमहंसो ज्ञानसाधनभूतनैष्कम्र्यसिद्धिप्रकरणश्रवणाद्यभिमुखोऽप्यमानित्वादिनिष्ठो भवेदित्याह यत इत्यादिना । प्रत्यग्धर्म आत्मा प्रत्यकासौ धर्मश्चेति तमनुगच्छति तद्याथात्म्यप्रतिपत्तिप्रतिपादकत्वेनायं ग्रन्थ इति प्रत्यग्धर्मानुग इत्युक्तम् ॥ ७० ॥