पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०३
चतुर्थोऽध्यायः ।

“क्षुधया पीड्यमानोऽपि न विषं ह्यतुमिच्छति । मिष्टान्नध्वस्ततृड् जानन्नामूढस्तजिघत्सति' ॥६६॥ यतोऽवगतपरमार्थतत्त्वस्य यथेष्टाचरणं न मनागपि घटते मुमुक्षुत्वेऽपि च । तस्मात् । रागो लिङ्गमबोधस्य चित्तव्यायामभमिष । कुतः शाङ्कलाता तस्य यस्याद्भिः कोटरे तरोः ॥६७॥ सकलपुरुषार्थसमाप्तिकारिणोऽस्यामावबोधस्य कुतः प्रसूतिरिति । उच्यते ।


किमु वक्तव्यन्यायमेव दृष्टान्तेन स्पष्टयति तत्र दृष्टान्त इत्यादिना । यथा लोके क्षुत्क्षामस्तन्निवृत्तिसाधने प्रयतमानोऽप्यतत्साधने प्रत्युत प्रतिकूले विषदूपितान्ने न प्रवर्तते तत्र मिष्टान्नेन ध्वस्ततृप्णस्तस्य विपदृषितत्वं जानन्विवेकी न तद्तुमिच्छतीति किमु वक्तव्यं तथा मुमुक्षुरप्राप्तपरमपुरुषार्थस्तत्साधने प्रवर्तमानोऽप्यनित्यत्वादिदोषदूषितैहिकामुष्मिकादिसुखेभ्यो विरक्तस्तत्साधनेषु न प्रवर्तते तत्र किमु वक्तव्यं परब्रह्मानन्दानुभवपरितृप्तो विद्वान्बहुलायासपरिक्रुिष्टेषु वैषयिकसुखलवेषु न प्रवर्तत इति भावः ॥ ६६ ॥ यस्मात्सिद्धस्य साधकस्य च न रागद्वेपनिबन्धने प्रवृत्तिनिवृत्ती भवतस्तस्मात्प्रवृत्त्यादिनानुमितो रागोऽविद्धत्ताया एव लिङ्गमित्युपसंहरति यत इत्यादिना । चित्तव्यायामभूमिषु चित्तस्य स्वारसिकप्रवृत्त्यालम्बनेषु शब्दादिषु यो रागः सोऽयमबोधस्य लिङ्गं । तत्र दृष्टान्तः कुत इति । यथा यत्राग्निस्तत्र न शशाङ्कलता तथा यत्र रागस्तत्र न बोध इत्यर्थः ॥ ६७ ॥ एवं प्रसङ्गागतमलेपकपक्षनिरासं समाप्य पूदिततत्त्वम्पदार्थविवेकमात्रस्यैव ज्ञानसाधनत्वमिति शङ्कानिरासाय सम्यग्दर्शनसाधनानि