पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

कस्मान्न भवति । यस्मात् । अधर्माज्जायतेऽज्ञानं यथेष्टाचरणं ततः । धर्मकार्ये कथं तत्स्याद्यत्र धर्मोऽपि नेष्यते ॥ ६३ ॥ प्रत्याचक्षाण आहातो यथेष्टाचरणं हरिः । “यस्य सर्वे समारम्भाः” “प्रकाशं चे'ति सर्वदृक् ॥६४॥ तिष्ठतु तावत्सर्वप्रवृतिबीजघस्मरं ज्ञानं मुमुक्ष्ववस्यायामपि न सम्भवति यथेष्टाचरणम् । तदाह । “योहि यत्र विरक्तः स्यान्नासौ तस्मै प्रवर्तते । लोकत्रयविरक्तावान्मुमुक्षुः किमितीहते' ॥ ६५ ॥


ननु वर्णाश्रमाभिमानस्यागन्तुकत्वात्स्वभावसिद्धत्वाच्च जात्यभिमानस्य मनुष्यत्वजातिमात्रोचितैव प्रवृत्तिस्तत्संस्कारवशाकि न स्यादिति विशेषहेतुर्वाच्य इत्याशङ्कयोत्तरश्लोकेन परिहरति कस्मादित्यादिना । जन्मान्तरानुष्टिताधर्मवशाद्भक्ष्यभक्षणादौ कर्तव्यताबुद्धिस्ततश्च यथेष्टाचरणं । इज्ञानं पुनरत्यन्तोत्कृष्टपुण्यकार्य “धर्मात्सुखं च ज्ञानं चेति'वचनात् । यस्मिश्च शाने सति प्रवर्तककामादिदोषाणामत्यन्तमुच्छिन्न त्वाद्धर्मेऽपि प्रवृत्तिर्न भवति तथाभूते ज्ञाने सति कथं यथेष्टाचरणम् । “भावितैः करणैरेभिर्बहुसंसारयोनिषु । आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे । अनेकजन्मसंसिद्धस्ततो याति परां गतिमि’ति स्मरणादतीतानेकजन्मस्वपि यथेष्टाचरणाभावेन तत्संस्कारस्याप्यभावान्न तद्वशादपि यथेष्टाचरणमित्यर्थः ॥ ६३ ॥ विदुषो यथेष्टाचरणाभावे भगवद्वचनमपि प्रमाणमित्याह प्रल्याचक्षाण इति ॥ ६४ ॥ इदानीं कैमुतिकन्यायेनापि विदुषो यथेष्टाचरणाभावमाह तिष्टत्वित्यादिना । मुमुक्षुरपि यत्र न चेष्टते तत्र मुक्तो न चेष्टत इति किमु वक्तव्यमित्यर्थः ॥ ६५ ॥