पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२०३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


चतुर्थोऽध्यायः । वास्तवेनैव वृतेनाविद्यायाः प्रध्वस्तत्वान्न किञ्चिदवशि ष्यत इत्युक्तः पारहारः । अथापरः साम्प्रदायिकः । निवृत्तसर्पः सपत्थं यया कम्पं न मुञ्चति । विध्वस्ताखिलमोहोऽपि मोहकार्य तथात्मवित् ॥६०॥ यतः प्रवृतिबीजमुच्छिन्नं तस्मात् । तरोरुत्खातमूलस्य शोषेणैव यथा क्षयः । तथा बुद्धात्मतत्त्वस्य निवृत्यैव तनुक्षयः ॥ ६१ ॥ अथालेपकपक्षनिरासार्थमाह । बुद्धाद्वैतसतत्खस्य यथेष्टाचरणं यदि शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥ ६२ ॥ २०११ एवं सद्योमुक्तिपक्षमङ्गीकृत्य शेषशेषिभावः परिहृतः सांप्रतं जीवन्मु क्तिपक्षेऽपि न शेषशेषिभाव इत्युत्तरग्रन्थस्य तात्पर्यमाह वास्तवेनैवेत्या दिना । सम्यग्बोधाद्वाधितसर्पविभ्रमस्य पुंसो यथा भयकम्पादिकं कं चित्कालमनुवर्तते तथा विदुषोऽपि बाधितोऽपि संसारः प्रारब्धकर्म फलभोगपर्यन्तमनुवर्तत इत्यर्थः ॥ ६० ॥ भवत्वेवं तथापि कथं शेषशेषिभावासम्भव इत्यत आाह यत इति । विविधवैधप्रवृत्तिबीजमविद्याकामादिकं सम्यग्ज्ञानादुच्छिन्नमिति यत स्ततश्च न शेषशेषिभावस्ततश्च निवृत्त्या प्रारब्धकर्मणो भोगेनैव निवृत्त्या प्रातिभासिकस्य शरीरादेः क्षय इत्यर्थ ॥ ६१ ॥ ननु विदुषो दृश्यमानानां प्रवृत्तीनां विधिनिबन्धनत्वाभावेऽपि राग द्वेषादिनिबन्धनत्वं स्यात्तथा च न स्वैरचेष्टायां दोष इति प्राप्तमिल्या शङ्का तन्निरासायोत्तरश्लोक इत्याह अथेत्यादिना । तत्त्वदृशां संस्कार वशान्मनुष्यत्वजात्युचितैव प्रवृत्तिर्न तु यत्किचिजात्युचितेति यथा त्वयेष्यते तथा प्रातिभासिकवर्णाश्रमोचितेव प्रवृत्तिस्तत्संस्कारवशा द्भवति नेतरेत्यभ्युपेयं तस्मान्न स्वैरचेष्टाप्रसङ्ग इत्यर्थः ॥ ६२ ॥