*नित्यमुक्तावविज्ञानं वाक्याद्भवति नान्यतः ।
वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम्”॥३१॥
“अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते धुवम् ।
एवं निर्तुःखमात्मानमक्रियं प्रतिपद्यते” ॥ ३२ ॥
“सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् ।
दशमखमसीयस्माद्यथैवं प्रत्यगात्मनि' ॥ ३३ ॥
वीक्षापन्नस्योदाहरणम् ।
न्यायेति । नित्यमुक्तत्वेति । अहं ब्रह्मास्मीत्यपरोक्षानुभवो वाक्यात्तत्त्वमयादिलक्षणाद्भवति नान्यतः प्रसंख्यानाद्यनुष्टानादिभ्यो वाक्यार्थस्य प्रमितेः पुष्कलकारणमाह वाक्यार्थस्येति । अखण्डाद्वयापरोक्षवाक्यार्थज्ञानं ब्रह्मात्मरूपं तत्त्वंपदार्थस्मरणपूर्वकं भवितुमर्हति ॥ ३१ ॥ तत्त्वंपदार्थस्मरणं च पूर्वोक्तान्वयव्यतिरेकाभ्यां वृद्धव्यवहारानुसारेण भवतीत्यर्थः । एवमुक्तप्रकारेण सर्वविशेषणरहितमात्मानं वाक्यादहंब्रह्मास्मीति प्रतिपद्यत इत्याह एवामिति ॥ ३२ ॥ कथं पुनर्वाक्यात्प्रतिपद्यत इत्यत आह सदेवेति । “सदेव सोम्येदमग्र पासीत्' । “सत्यं ज्ञानमनन्तं ब्रह्म'त्यादिवाक्येभ्योऽवगतं ब्रह्म यदा तत्वमसीत्याचाय बोधयेत्तदा विविक्तपदार्थस्याहंब्रह्मास्मीतिप्रमितिजयत इत्यर्थः । अत्र दृष्टान्तमाह दशमस्त्वमसीतीति । यथा दशमोऽसीतिवाक्याद्भान्तस्याहं दशमोऽस्मीति स्फुटा प्रमितिर्भवत्येवं तत्त्वमसी तिवाक्यान्मुमुक्षोः प्रत्यगात्मनि ब्रह्मस्वरूपेऽहं ब्रह्मास्मीति प्रमितिर्भवतीत्यर्थः ॥ ३३ ॥ यदस्माभिस्तृतीयेऽध्याये वीक्षापन्नस्य कोऽस्मीत्याद्याभिहितं यश्च नवसंख्यापहृतज्ञान इत्युदाहरणपूर्वकमपविद्धयोऽप्येवमिनि दान्तिकमुक्तं तदापि न स्वोत्प्रेक्षामात्रमाचायैरपि दशितत्वादित्याह वीक्षाप-