पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


  • तस्मात्यतेन हस्तेन तुल्यं सर्व विशेषणम्

अनामवेन तस्माज्ज्ञो मुक्तः सर्वविशेषणैः” ॥२४॥ “ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः । अहमित्यपि यद्भाह्य व्यपेताङ्गसमं हि तत्' ॥ २९ ॥

  • दृश्यावादहमित्येष नामधमों घटादिवत् ।

तथान्ये प्रत्यया ज्ञेया दोषाश्रामामलो ह्यतः” ॥३०॥ सवन्यायापसङ्गहः ।


यस्मादविद्याध्यस्तै तस्मात्त्यक्तहस्तवदनात्मैव सर्वे विशेषणं तस्मादात्मा निरस्तसमस्तविशेषण इत्याह तस्मात्यतेनेति ॥ २८ ॥ - “ ननु विशेषणानां व्यभिचारित्वादनात्मत्वं चेत्कस्तह्यत्मेत्याशङ्कय व्यभिचारिसर्वविशेषणसाक्षित्वेन यः सर्वदान्वितः स सर्वसाक्षी सर्वविशेषणपरित्यागेनात्मेति ग्राह्य इत्याह ज्ञातैवेति । केवलो निरवयवः । नन्वात्मनः सर्वविशेषणवर्जितत्वमनुपपन्नमहमिति विशेषणपुरस्कारेणैव सर्वेहणादित्यत आह अहमित्यपीति । अहमित्यपि सर्वेयैड्राह्यम हंरूपं व्यपेताङ्गसमं त्यक्तहस्तादिसमं सुषुत्यादौ व्यभिचारात्समस्तविशेषणवर्जित आत्मेत्यर्थः ॥ २९ ॥ एवं व्यभिचारित्वेनाहङ्कारादीनां छिन्नहस्तवदनात्मत्वमतद्विशेषणत्वं चाभिधाय दृश्यत्वादप्यनात्मत्वमनात्मधर्मत्वं च तेषामाचायैर्नान्यदन्यत्प्रकरणे दर्शितमित्याह दृश्यत्वादिति । अहमित्येष परिणामवानहङ्कारो नात्मधर्मो दृश्यत्वाद्धटादिवदिति तस्य येऽन्ये परिणामप्रत्ययाः सुखदुःखादयो दोषा रागाद्यश्चेति तथा ज्ञेया दृश्यत्वान्नात्मधर्मा इति ज्ञेया इत्यर्थः ॥ ३० ॥ पुनरपि भगवत्पूज्यपादाचार्येरस्मदुक्तो न्यायस्तत्त्वमसिप्रकरणेऽपि दशितः समस्तन्यायोपसंहारैः पञ्चभिः श्लोकैः प्रदशित इत्याह सर्व- ।