तत्र त्वमिति पदं यत्र लक्षणया वर्तते सोऽर्य उच्यते । “अहंशब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि । सैवोक्ता सदसीत्येवं फलं तत्र विमुक्ताता' ॥ २५ ॥ अन्यच्चान्वयव्यतिरेकोदाहरणमम् । यथा ।
- छित्वा यतेन हस्तेन स्वयं नामा विशेष्यते ।
तया शिष्टेन सर्वेण येन येन विशेष्यते’ ॥ २६ ॥
- विशेषणमिदं सर्व साध्वलङ्करणं यथा ।
अविद्याध्यस्तमतः सर्वे ज्ञात आत्मन्यसङ्गवेत्”॥२७॥
म्पदलक्षणमपि यथोक्तमाचवायैरपि दर्शितमित्याह तत्रेति । अहंशब्दस्यात्मवाचकस्य प्रत्यगात्मज्योतिषि लक्षणया या निष्ठा पर्यवसानं सैवोक्ता सदसीत्यपि वाक्ये विवक्षिता त्वम्पदार्थात्वत्पदलक्ष्यस्य न भेदो ऽस्तीत्यर्थः । फलवत्वादप्येकत्व एव श्रुतेस्तात्पर्यमाह फलं तत्रेति । अथवाऽहं ब्रह्मास्मीलयत्राहंशब्दस्य लक्ष्यं वस्तु तदेव तत्त्वमसीलयत्र त्वम्पदलक्ष्यमित्याह अहंशब्दस्येति । एवमहंशब्दलक्ष्ये वस्तुनि त्वम्पदलक्ष्ये सति किं फलमित्यपेक्षायामाह फलं तत्रेति ॥ २५ ॥ आत्मानात्मविवेकायान्वयव्यतिरेकौ प्रकारान्तरेणापि दशितावाचायैरित्युत्तरश्लोकपञ्चकस्य तात्पर्यमाह अन्यचेति । छित्वा त्यक्तनेति । यथा छित्त्वा त्यक्तन हस्तेन स्वयमात्मा शोभनहस्तो विरूपहस्त इति वा पूर्व तेन विशेष्यमाणोऽपि न विशेष्यते तथा विशिष्टेन सर्वेण येन येन स्थूलदेहसमवायिना श्रोत्रादिना सूक्ष्मदेहसमवायिना च दुःखित्वादिना पूर्व विशेष्यते तेन तेनापि न विशेष्यत इत्यर्थः ॥ २६ ॥ ननु किमिति न तेन विशेष्यत इत्याशङ्कय विशेषणानामविद्याध्यस्तत्वेनासत्वादित्याह विशेपणमिदमिति । यथा सुवर्णादिलक्षणमलङ्करणं देहादिव्यतिरिक्तस्य देहाद्यध्यासवशादध्यस्तं तथैव तदपि सर्व विशेपणमात्मनि यतोऽविद्याध्यस्तमतः शास्राचार्यप्रसादादहंब्रह्मास्मीति विज्ञात आत्मन्यसद्भवेदित्यर्थः ॥ २७ ॥