पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१९०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१५ ४ नैष्कम्यैसिद्धिश्चन्द्रिकासहिता तस्य च युष्मदस्मविभागविज्ञानस्य का युक्तिरुपायभावं प्रतिपद्यते । शण ।

  • अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च ।

स्यादेतदहमित्यत्र युक्तिरेवावधारणे' ॥ २२ ॥ कथं तो युक्तिरित्यत्राह नाद्राक्षमहमित्यस्मिन् सुषुझेऽन्यन्मनागपि । न वारयति दृष्टि स्वां प्रत्ययं तु निषेधति' ॥ २३ ॥ “एवं विज्ञातवाच्यार्थे श्रुतिलोकप्रसिद्धितः । श्रुतिस्तत्वमसीत्याह श्रोतुमहापनुतये” ॥ २४ ॥ अन्वयव्यतिरेकौ पदपदार्थविवेककारणमिति यदस्माभिरुत्तं तदपि भगवत्पादाचार्येः प्रदर्शितमित्याह तस्य चेति । पदपदार्थयोरन्वयव्यति रेकावेवैतदिदमनात्मरूपमहमात्मेत्यस्मिन्नवधारणे युक्तिरुपायः स्यादि त्यर्थः । यद्वैतदहङ्काररूपमेतत्साक्षिरूपमित्येतस्मिन्नवधारणे युक्तिः स्या दित्यर्थः ॥ २२ ॥ आगमापायितदवध्यन्वयव्यतिरेकावपि पदार्थविवेकोपायत्वेनास्मदु क्तावाचायैरपि दर्शिताविति दर्शयति कथमिति । अहमिदानीमस्मिन्सु षुझे नात्मनोऽन्यदीषदद्राक्षमिति सुषुप्तादुत्थितः परामृशन्स्वात्मभूतां दृष्टि न निवारयति परामशपेक्षितपूर्वानुभवरूपत्वेन तत्र स्थितत्वा त्किन्तु घटपटादिविषयप्रत्ययंमेव निषेधतितेनात्मैवाव्यभिचारी अनात्मा तु व्यभिचारीत्युक्तलक्षणान्वयव्यतिरेको दर्शितावित्यर्थः । अत्रेति पाठ आत्मन्यस्मिन्काले वेत्यर्थः ॥ २३ ॥ इत्थं कृतान्वयव्यतिरेकस्य वाक्यमेवैकत्वप्रतिपाद्कं नान्यदिति य दुतं तदाचार्येरप्युक्तमित्याह एवमिति । “न हि द्रष्टुरि'त्यादिश्रुति लोकप्रसिद्धिद्वारेण विज्ञातवाच्यार्थे विविक्तज्ञातवाच्यार्थेऽनात्मनिरा सेनावगतवाच्यार्थ इत्यर्थः । विज्ञातवाक्यार्थ इति पाठे विज्ञातपदार्थ इ त्यर्थः । पदार्थस्यैव वाक्यार्थत्वात् ॥ २४ ॥ ८८