पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९२
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

“नवबुद्धयपहाराद्धि स्वात्मानं दशपूरणम् । अपश्यन् ज्ञानुमेवेच्छेत्स्वमात्मानं जनस्तथा'॥३४॥

  • अविद्याबद्धचक्षुष्टाकामापहृतधीः सदा ।

विवितं दृशिमात्मानं नेक्षते दशमं यथा” ॥ ३५ ॥ सोऽयमेवमविद्यापटलावगुण्ठितदृष्टिः सन् कथमुत्थाएयत इत्याह । यथा स्वापनिमितेन स्वशादृक्प्रतिबोधितः । करणं कर्म कर्तारं स्वामं नैवेक्षते स्वतः ॥ ३६ ॥ अनामज्ञस्तथैवायं सम्यक् श्रुत्यावबाधत्तः । गुरुशास्त्रं तथा मूढं स्वात्मनोऽन्यं न पश्यति ॥३७॥


न्नस्येति । नवैव वयमिति संख्याभिनिवेशादपहृतदशमशानो जनः स्वव्यतिरिक्तान्नव पुरुषान्वीक्षमाणोऽपि यथा विभ्रमादात्मानं दशसंख्यापूरकमजानानो वेदितुमिच्छति तथाविद्याप्रतिबद्धसम्यग्दर्शनो विषयाभिषङ्गलक्षणकामेन विषयाभिमुखमपहृतचित्तः समस्तद्वैतनिर्मुक्तं सर्वसाक्षिणमपरोक्षमात्मानं दशममिव न प्रतिपद्यत इति श्लोकद्वयार्थः

  • ॥ ३४ ॥ ३५ ॥

नन्वेवमविद्याप्रतिबद्धसम्यग्दर्शनस्य श्रुत्यादिदर्शनकारणानि किं सत्यान्युतासत्यानि । सत्यत्वेऽद्वैतव्याधातोऽसत्यत्वे च न सम्यग्दर्शनकारणमित्याशङ्कयोत्तरश्लोकाभ्यां दृष्टान्तप्रदर्शनपुरःसरं परिहारमाह सोऽयमित्यादिना । यथा स्वप्रदृग्चोरव्याघ्रादिकस्य स्वाविद्यापरिकल्पितस्य दर्शननिमित्तभयवशात्सहसा प्रतिबुद्धः स्वमद्शायां स्वाशानकल्पितं करणादिकं स्वतो विलक्षणं नेक्षते तथानाद्यविद्यानिद्रापरवशः स्वाविद्यापरिकल्पितश्रुत्याचार्यादिवशादहमस्मि परं ब्रह्मति प्रतिबुद्धः स्वातिरिक्त श्रुत्याचार्यादिकं न पश्यति तेन श्रुत्याचार्यादेरविद्याविवर्तत्वान्नाद्वैतव्याघातो नापि विद्यानुदयस्तथाभूतेभ्योऽपि विश्रोदयस्य दशितत्वादिति भावः ॥ ३६ ॥ ३७ ॥