पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८१
चतुर्थोऽध्यायः ।

असाधारणांस्तयोर्धर्मान ज्ञावा धूमाझिवडुधः । अनात्मनोऽय बुद्धयनान् जान्नायादनुमानतः ॥ ५ ॥ इदमित्येव बाद्येऽर्थे ह्यहमित्येव बोद्धरि । इयं दृष्टं यतो देहे तेनायं मुह्यते जनः ॥ ६ ॥ केन पुनन्र्यायेनात्मानात्मनोरश्चमहिषयोरिव विभागः क्रियत इति । उच्यते । न्यायः पुरोदितोऽस्माभिरात्मानात्मविभागकृत् । तेनेदमर्थमुत्सार्य ह्यहमित्यत्र यो भवेत् ॥ ७ ॥ विद्यातत्वमसीत्यस्माङ्गावाभावदृशं सदा । अनन्तरमबाह्यार्थे प्रत्यकस्यं मनिरञ्जसा ॥ ७ ॥


कथं तर्हि निर्णय इत्याह असाधारणानिति । द्रष्टत्वाजडत्वाद्यो ह्यात्मनोऽसाधारणधर्मा दृश्यत्वजडत्वाद्यस्त्वनात्मधर्मास्ताञ्ज्ञात्वा धूमेनाष्ट्रिमिव देहादीन्बुध्यन्तान्दृश्यत्वादिलिङ्गकानुमानैरनात्मनो जानीयादित्यर्थः ॥ ५ ॥ मध्ये संशयदर्शनमित्युक्तं किं तत्र संशयकारणमित्यत्राह इदमिति । इदमित्येव घटादिबाह्यविषये बुद्धिर्भवति । अहमित्येव झातरि बुद्धिः शरीरे तु ममेदं शरीरमहं मनुष्य इति च बुद्धिद्धयमुपलभ्यते तेन संशयो जायत इत्यर्थः ॥ ६ ॥ किंपुनस्तन्निर्णयकारणमित्याकाङ्कायां द्रष्टदृश्यादिचतुर्विधान्वयव्यतिरेकलक्षणो न्यायः पूर्वाध्यायेष्पपादित इत्याह केन पुनरित्यादिना । तेनेदमिति । इदमनिदंरूपसंभिन्नेऽहङ्करे य इदमंशास्तं दृश्यत्वादिहेतुभिरनात्मतयोत्सार्य यः परिशिष्टोऽनिदमंशस्तमात्मानमुक्तलक्षणं तत्वमसीतिवाक्याज्जानीयादित्यर्थः ॥ ७ ॥ विद्यादिति ॥ ८ ॥