उच्यतां तर्हि कया तु परिपाट्या वाक्याथै वेतीति । उच्यते । अन्वयव्यतिरेकाभ्यामम् । त्यक्तकृत्त्रेदमर्थत्वात्यक्तोऽहमिति मन्यते । नावगच्छाम्यहं यस्मान्निजामानमनात्मनः ॥ ९ ॥ अथ शरीरादिबुद्धिपर्यन्तः स सर्वोऽनात्मैवेति प्रमाणाद्विनिश्चित्य किमिति बुभुत्सातो नोपरमते । शृणु । अनुच्छिन्नबुभुत्सश्च प्रत्यग्घेतोरनात्मन दोलायमानचितोऽयं मुह्यते भौतवन्नरः ॥ १० ॥ अविलुप्तविज्ञानात्मन आत्मावादेव नित्यसान्निध्याडूभुसुः किमिति न प्रतिपद्यत इति । यस्मात् ।
कस्तर्हि वाक्यार्थप्रतिपत्तौ क्रम इत्याकाङ्कायां प्रथममन्वयव्यतिरेकाभ्यां बुद्धादीननात्मत्वेनोत्सार्य ततो विवित्तं प्रत्यगात्मानं तत्साक्षिणमधिगम्य वाक्याब्रह्मात्मतां प्रतिपद्यत इति क्रममभिप्रेत्याह उच्यतामित्यादिना । वाक्यापेक्षायां कारणं दर्शयितुमाह त्यक्तकृत्स्रोति । पूर्व देहादेर्बुच्द्यन्तस्याहमित्यात्मत्वेन गृहीतस्यान्वयव्यतिरेकाभ्यामनात्मतया परित्यक्तत्वादहमात्मापि परित्यक्त इति मुमुक्षुर्मन्यते कुतो यतोऽनात्मनः सकाशान्निष्कृष्य निजमात्मानं नाहमवगच्छामि तस्मादहं नष्टो ऽस्मीति मन्यते ततस्तन्निर्धारणाय बुभुत्सोर्वाक्यापेक्षेत्यर्थः ॥ ९ ॥ उक्तमेवार्थ प्रश्नपूर्वकं विशदयति अथेत्यादिना । अनुच्छिन्ना बुभुत्सा बोदुमिच्छा यस्य स तथोक्तः । तत्र हेतुः प्रत्यग्धेतोरिति । अनात्मनः सकाशात्प्रत्यगात्मनः प्रातिपत्तिहेतोः प्रतिपत्त्यर्थमिति यावत् । भौतो भूतोपनिगृहीतो भ्रान्तस्तद्वदित्यर्थः ॥ १० ॥ नन्वात्मनः स्वसत्ताप्रयुक्तप्रकाशकत्वाद्देशादिव्यवधानाभावाश्च नाप्रकाशो युक्तस्तत्कथं इति शङ्कते विलुतेति । तदुत्तरबुभुत्सानुपरम त्वेन श्लोकमवतारयति यस्मादिति । यैश्चक्षुरादिभिः करणैर्विवेकोदया-