पूर्वाध्यायेषु यबस्तु विस्तरेणोदितं स्फुटम् । संक्षेपतोऽधुना वक्ष्ये तदेव सुखवित्तये ॥१॥ संक्षेपविस्तराभ्यां हि मन्दोतमधिया नृणाम् । वस्तूच्यमानमेत्यन्तःकरणं तेन भण्यते ॥२॥ आत्मानात्मा च लोकेऽस्मिन्प्रत्यक्षादिप्रमाणतः। सिद्धस्तयोरनात्मा तु सर्वत्रैवात्मपूर्वकः ॥ ३ ॥ अनात्मावं स्वतःसिद्धं देहाद्भिन्नस्य वस्तुनः । ज्ञातुरप्यात्मता तद्वन्मध्ये संशयदर्शनम् ॥ ४॥
श्रीगणपतिसरस्वतिसद्गुरुभ्यो नमः । हरिः। ॐ। एवं प्रथमद्वितीयतृतीयाध्यायैः क्रमेण समन्वयाविरोधवाक्यार्थज्ञानसाधनानि विचार्य चतुर्थाध्यायेन फलविचारं प्राधान्येनारभमाण एष संक्षेपतः पूर्वाध्यायत्रयस्यार्थ उक्त इत्यतःप्राक्तनस्य ग्रन्थस्यातीताध्यायत्रयेण पौनरुक्त्यं परिहरति पूर्वाध्यायेष्विति ॥१॥ ननु विस्तरेणोक्तमपि न प्रतिपद्यन्ते चेत्कथं संक्षिप्योक्तं सुखं प्रतिपद्यरन्नित्यत आह संक्षेपविस्तरेति ॥ २॥ संदिग्धे न्यायः प्रवर्त्तत इति न्यायात्संदिग्धस्यैव विचार्यत्वात्तत्परिशोधयितुमविप्रतिपन्नमर्थं तावद्दर्शयति आत्मेति । ननु प्रत्यक्षादिप्रमागैरनात्मैव सिद्धो न पुनरात्मेत्याशङ्ग्य द्रष्टसिद्धिव्यतिरेकेण दृश्यस्यासिद्धेमैवमित्याह तयोरिति ॥३॥ किंलक्षणौ तात्मानात्मानौ प्रसिद्धावित्यत्राह अनात्मत्वमिति । दृश्या घटायोऽनात्मानो द्रष्टैवात्मेति प्रसिद्धमित्यर्थः । कुत्र तर्हि संशय इत्याह मध्य इति । घटादेः प्रत्यगात्मनश्चान्तराले शरीरेन्द्रियादौ कतमो द्रष्टेति वादिविप्रतिपत्तेः संशय इत्यर्थः ॥ ४॥