चानभिधेये कथमभिधाश्रुतिरविद्याध्वंस्यात्मनि ज्ञानं
जनयतीति । तत्रेव कारणान्तरमुच्यते ।
अतिदुःस्थोऽप्रबोधोऽत्र ह्यात्मैवास्य प्रबुद्धता ।
निमित्तमात्राद्येत्येषा नासाग्रे बदरं यथा ॥ ११० ॥
अनुदितानस्तमितकूटस्यबोधमात्रस्वाभाव्यादात्मनो दुःसम्भाव्योऽविद्यासद्भाव इति चेन्नाविद्याप्रसिद्धयैव तत्स
द्भावसिद्धेरुलूकनिशावदित्यत इदमुच्यते
अहो धाष्टर्यमविद्याया न कश्चिदतिवर्तते ।
प्रमाणं वस्त्वनादृत्य परमात्मेव तिष्ठति ॥ १११ ॥
यस्मादविद्याप्रसिद्धयैवाविद्यासज्ञावसिद्धिरत आत्मवस्तू
चनयापि तदुपपन्नमित्युच्यत इत्यर्थः । अतिदुःस्थतामेवोपपादयति आात्मैवेति । अनुदितानस्तमितप्रकाशस्वभाव आत्मन्यबोधः स्वप्रकाशस्वभावे सवितरीव तमःप्रतिभासव्यतिरेकेण वस्तुतो नोपपन्नस्तेन यत्किचिन्निमित्तमासाद्य नासाग्रस्थबद्रमिव व्येत्यपगच्छतीत्यर्थः ॥ ११० ॥ ननु तर्हर्युक्तयुक्तिबलान्न भवेदात्मन्यविद्येति चोद्यमुद्भाव्य प्रसिद्धत्वेन तस्याः सद्भावापह्नवायोगान्नित्यपरतन्त्रतया प्रतीतेः स्वातन्त्र्यायोगाजडाश्रयत्वस्य च निरस्तत्वादहमज्ञो मामन्यं च न जानामीति भासानुसारेणात्माश्रयत्वमेष्टव्यमिति परिहरति अनुदितेत्यादिना। उलूकनिशावदिति । यथा प्रमाणतकाभ्यां स्वप्रकाशस्वभावस्याह्नो रात्रित्वासम्भ वेऽप्युलूकानामपरोक्षत्वादह्न एव रात्रित्वं तद्वत्प्रमाणतकर्काभ्यामात्मन्यविद्यासद्भावाभावेऽप्यपरोक्षत्वाद्स्तीत्यभ्युपेयमित्यर्थः । धाष्टर्यमेवोपपाद्यति प्रमाणमिति । प्रमाणं वस्तु वृत्तं चानपेक्ष्य स्वयमेव परमार्थवद्वभासते तस्मादविद्याया धाष्टर्य विद्वानीश्वरोऽपि नातिवत्तितुं शक्रोतीत्यर्थः ॥ ११ ॥ ननु प्रसिद्धबलाञ्चेदात्मन्यविद्याभ्युपेयते तर्हि प्रसिद्धेः सार्थकत्वाय