पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७१
तृतीयोऽध्यायः ।


* असत्ये वार्मनि स्थिाचे'युपश्रुत्यातिविस्मितो महता सम्भ्रमेण कश्चिञ्चोदयति । नासनुपायो लोकेऽस्ति परमार्थविनिश्चये । नासलुिङ्गाडि बाष्पादेः कश्चिद िप्रपद्यते ॥ १० ॥ इत्येवं चोदयेद्योऽपि जोषयेतं घटादिना । सदसद्भद्यां विभक्तोऽसौ पर्यायश्र न चानयोः ॥१०९॥ एवं कुचोद्यमुन्मूल्याथेदानीं प्रकृतमभिधीयते । प्रकृतं


ननु यस्य यद्वप मिथ्या तस्य तत्प्रयुक्तकायकरत्व नास्ति यथा बाष्पधूमस्य धूमत्वाभावान्न तत्प्रयुक्ताद्धिगमकत्वमेवं श्रुत्याचार्यादेस्तदूपेण मिथ्यात्वान्न तत्प्रयुक्तबोधहेतुत्वसम्भव इति चोदयतीत्याह असत्ये वत्र्मनि स्थित्वेत्युपश्रुत्येत्यादिना ॥ १०८ ॥ परिहरति इत्येवमिति । ब्रह्मव्यतिरिक्तस्य कृत्स्रस्य घटपटादेः प्रपञ्चस्य मायामयत्वाङ्गीकारात्तस्य चार्थक्रियाकारित्वे तचाप्यविवादातुच्छतायाश्च मयेव त्वयाण्यनङ्गीकाराद्धटादिनैव दृष्टान्तेन प्रीणातु भवानित्यर्थः । दृष्टान्तोऽप्यसंप्रतिपन्न इति मन्वानं प्रत्याह सदसद्भयामिति । नहि घटादिः सन्नास्तीत्यपि दर्शनान्नाप्यसन्नभावप्रतियोगित्वात्ततः सदसद्भयां विलक्षण इत्यर्थः । तर्हि क्रमेण सत्त्वमसत्वं चेत्याशङ्कयाह पययश्च न चानयोरिति । यस्मिन्धर्मिणि सत्वासत्त्वयोः क्रमेण समावेश इष्यते तस्य सत्वेऽसत्वे च न समावेशः सम्भवति वैयथ्याद्विरोधाञ्चोभयविलक्षणत्वे चानिर्वचनीयता बलादापतति । बाष्पधूमादेस्त्वव्यात्वादेवागमकत्वं प्रमेयत्वादिचन्न त्वसत्यत्वादसल्यस्यापि प्रतिबिम्बवर्णदैध्यदेर्गमकत्वदर्शनात्सत्यस्यापि घटपटादेरळ्याप्तस्य गमकत्वाद्दर्शनाञ्छेति भावः ॥ १०९ ॥ वृत्तकीर्त्तनपूर्वकं वर्त्तितष्यमाणस्य तात्पर्यमाह एवमिति । कारणान्तगमिति । अविद्यानिरासिझानोत्पादकशब्दशक्तयालोचनयागृहीतसम्बन्धस्यापि निवर्तकत्वं पूर्वमुदितमिदानीं निवत्यविद्यास्वभावपर्यालो-