पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

नहि नाम्नास्ति सम्बन्धो व्युत्थितस्य शरीरतः । तथापि बुध्यते तेन ययैवं तत्त्वमित्यतः ॥ १०६ ॥ बोधाबोधौ नभोऽस्पृष्टा कृष्णधीनीडगौ यथा । बाध्येतरात्मकौ स्यातां तथेहात्मनि गम्यताम् ॥१०७॥


भिधेयसम्बन्धेनैव बोध्यमानः प्रबुध्यते तद्वत्तत्वमस्यादिनाप्याविद्यया निद्रितः पुमानगृह्यमाणसम्बन्धेनैव बोध्यमानः प्रबुध्यत इत्यर्थः ॥१०५॥ ननुनामभिः पूर्वसम्बन्धग्रहणमस्त्येव तस्माद्भहीतसम्बन्धानामेव तेषां तत्रापि बोधकत्वमित्यत आह नहीति । शरीराद्युत्थितस्य देहेन्द्रियाभिमानरहितस्य सुषुप्तस्य स्ववाचकशब्दश्रवणसम्बन्धस्मरणयोरभावा:तद्भावे च सति शरीरसम्बन्धे प्रतिबोधः प्रतिबोधे सति शरीरसम्बन्धः । अथवा । प्रतिबोधे सति श्रवणं श्रवणांच्च प्रतिबोध इति परस्पराश्रयत्वप्रसङ्गादस्मर्यमाणसम्बन्धयैव बोधकत्वं सुषुप्तावङ्गीकर्तव्यं तस्माद्वाचकशब्दस्य वाच्य एव सम्बन्धज्ञानापेक्षा न लक्ष्ये । अन्यत्रगृहीतसम्बन्धस्यापि गङ्गाशब्दस्य सम्बन्धग्रहणं विनैव तीरादौ बुद्धिजनकत्वप्रदर्शनादेवं शबलेऽपि गृहीतसम्बन्धानामपि तत्त्वमस्यादिशब्दानां लक्षणयाखण्डैकरसपर्यवसायित्वं नानुपपन्नमिति भावः ॥ १०६ ॥ ननु भवत्वेवं शब्दादात्मनि ज्ञानोत्पत्तिस्तथापि निवत्र्यनिवर्तकाज्ञानशानाश्रयत्वादात्मनः सविकारत्वं प्राप्तमित्याशङ्कया दृष्टान्तेनैव तन्निराचष्टे यथा चेति । अमूर्तत्वान्नीरूपमाकाशमिति बोधो नीलोत्पलदलवन्नीलमित्यबोधस्तौ यथा नभो गगनमस्पृष्टा विकारमकृत्वैव बाध्यबाधकौ स्याताम् । कथं तर्हि तयोरप्यन्तरेण विषयगतमतिशयं निवत्र्यनिवर्तकभावः स्यादित्याशङ्कयाह कृष्णधीनीडगाविति । कृष्णाकारा धीः कृष्णधीस्तस्या नीडमालम्बनं विषय इति यावत् । तद्रतौ तद्विषयौ नीरूपं रूपवचेति विरुद्धाकाराकारितौ तावन्मात्रस्यैव यथा निवत्र्यनिवर्तकौ भवतस्तथात्मानमविकृत्यैव संसार्यसंसारीति बोधाबोधौ निवत्र्यनिवर्तकौ स्यातामित्यर्थः ॥ १०७ ॥